________________
स्थितिघातः रसघातश्च ।
पूर्वकरणाधिकारः
निव्वयणमवि ततो से दिइरसवायटिबन्धगद्धा तु । गुणसेही विय समगं पढमे समये पवत्तं ति ॥१२॥
निर्वचनमपि ततस्तस्य स्थितिरसधातस्थितिबन्धकाद्वा तु । गुणश्रेणिरपि च समक प्रथमे समये प्रवर्तन्ते ।। १२ ।। इति
पदसंस्कार:
"ततो से" त्ति, तस्याऽपूर्वकरणस्य "निव्वगणं" ति, निर्वचनम् - निश्चितमन्वर्थाऽनुयायि वचनं प्रतिपादनीयम् । तद्यथा - अपूर्वाण्यभिनवानि करणानि स्थितिघातरसघातगुणणि स्थितिबन्धादीनि निर्वर्तनानि यस्मिंस्तदपूर्वकरणम्, तथाहि - अपूर्वकरणं प्रविशजीवः प्रथमसमय एव स्थितिघातरसघातगुणश्रेणी: स्थितिबन्धं चाऽन्यं युगपदारभते । तथा चाssह – “ठिइरस " इत्यादि, स्थितिघातो रसघातः स्थितिबन्धाऽद्धा गुणश्रेणिरपि चेत्येते चत्वारः पदार्थ अभिनवाः समकं युगपत्प्रथमसमय एव प्रवर्तन्ते ।
अपूर्वकरणस्याऽन्वर्थनाम प्रतिपादयित्वा स्थितिघातं रसघातं च विचिरूपासिपुराह - उयहिपुहत्तुक्कस्सं इयरं पलस्म संखतमभागा । ठिकरा डगमगु भागाणणंत भागा मुहुत्तंतो भागडगाणं बहुहिं सहस्सेहिं पूरए इक्कं । ठिकरा सहस्सेहिं तेसिं बीयं समारोह
॥१३॥
113 211
[ ३९
उदधिपृथक्त्मुत्कृष्टमितरः पत्यस्य संख्यतमभागः । स्थिति कण्डकमनुभागानामनन्तमागा मुहुर्त्तान्तः ॥ १३ ॥ अनुभागकण्डकानां बहुभिः सहसंः पूरयेदेकम् 1
स्थितिकण्डकसहस्र स्तेषां द्वितीयं समानयति ॥ १४ ॥ इति पदसंस्कारः स्थितिसत्कर्मणोऽग्रिम मागाद् “उयहिपुहुत्तुक्कस्सं" ति, उत्कर्षत उदधिपृथक्त्वं प्रभूतसागरोपमशतप्रमाणमित्यर्थ: "इयर पल्लम्स संखतमभागो" इत्यादि जघन्यतश्च पल्योपमसंख्येतमभागमात्रं स्थितिकण्डकमुत्किरति खण्डयतीत्यर्थः, उत्कीर्य चाऽधः प्रतिसमयं तद्दलिकं प्रक्षिपति, अन्तर्मुहूर्तेन च कालेन तरिस्थतिकण्डकमुत्कीर्यते खण्ड्यत इत्यर्थः, उक्तं च पञ्चसंग्रह उपशमनाऽधिकारे-“उक्को सेण बहुसागराणि इयरेण पल्ल संखंसं । ठितिअगाओ घाइ अंतमुहुत्तेण ठितिकडं || १ ||" अत एवाऽन्तमुहूर्ते व्यतिक्रान्ते कण्ड़कप्रमाणा स्थितिः सत्तायां न्यूना भवति । ततो द्वितीयेऽन्तर्मुहूर्ते पुनरप्यधस्तात्पल्योपमसंख्येयभागमात्रस्थितिकण्डकमन्तर्मुहूर्तेनैव कालेनोत्कीर्यते पूर्वोक्तप्रकारेण च निक्षिप्यते । एवं तावद् वाच्यं यावदपूर्वकरणस्य चरमान्तमुहूर्तम् । इत्थमपूर्वकरणाऽद्धायाः प्रभूतानि स्थितिकण्डकसहस्राणि व्यतिक्रामन्ति, तथा च सत्यपूर्वकरणस्य प्रथमसमये यत्स्थितिसत्कर्माऽऽसीत्त
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org