________________
३८]
उपशमनाकरणम्
[ गाथा १०-११ वृद्ध्या प्रवर्धमानान्यप्राप्तानि विशेषाधिकानि प्राप्यन्ते, । तिर्यक् च षट्स्थानपतितानि ★ एवमुपयु परिमुखान्यमृन्यनुचिन्त्यमानानि प्रतिसमयमनन्तगुणवृद्धया प्रवर्धमानान्यप्राप्तानि विशेषाधिकानि प्राप्यन्ते ।
अस्य करणस्य स्थाप्यमानान्यध्यवसायस्थानानि विषमचतुरस्र क्षेत्रमास्तृणन्ति ।
तीव्रमन्दता--"बीइयव" इत्यादि, द्वितीयस्याऽपूर्वकरणस्य द्वितीयसमये जघन्यमपि विशोधिस्थानमनन्तरोत्कृष्टात्पथमसमयभाविन इत्कृष्टाद्विशोधिस्थानादनन्तगुणं वाच्यम् ।
इदमत्र हृदयम- -इह यथाप्रवृत्त करण इवाऽऽदितो निरन्तरं जघन्यानि विशोधिस्थानान्यनन्तगुणतया न वाच्यानि किन्तु प्रथमसमये जघन्या विशुद्धि प्रथमलस्सस्तोका वाच्या सा च यथाप्रवृत्त करणचरमसमय भाव्युत्कृष्टविशुद्धिस्थानादनन्तगुणा । 5 ततः प्रथमसमय एवोत्कृष्टाविशोधिरनन्तगुणा ततोऽपि द्वितीयसमये जघन्या विशोधिरनन्तगुणा ततोऽपि तस्मिन्नेव द्वितीयममय उत्कृष्टा विशोधिरनन्तगुणा. ततोऽपि तृतीयसमये जघन्या विशोधिरनन्तगुणा ततोऽपि, एवं जघन्या उत्कृष्टा च विशोधिरनन्तगणवृद्ध्या तावन्नेया यावदपूर्वकरगस्य चरमसमये जघन्यत उत्कृष्टा विशोधिरनन्तगुणा । तिर्यग्मुखी विशोधिरत्र प्रतिसमयं षट्स्थान पतिता यथाप्रवृत्त करणवज्ञया । तथाहि--अपूर्व करणस्य प्रथमसमयवर्तिनानानाजीवाऽपेनयाsसंख्येयलोकाशप्रदेशप्रमाणान्यध्यवसायस्थानानि भवन्ति, तत्र कस्यविज्जीवस्याऽध्यवसायस्थानमनन्त भागवृद्धम् , कस्यचिदसंख्येयभागवृद्धम् , कस्यचित्संख्येयभागवृद्धम् , कस्यचित्संख्येयगुणवृद्धम ; कस्यचिदसंख्येयगुणवृद्धम् , कस्यचिदनन्तगुणवृद्धम् , कस्यचिज्जीवस्याऽध्यवसायस्थानमनन्तभागवृद्धम् , कचिदसंख्येयभागवृद्धम् , कस्यचि. संख्येयभागवृद्धम् , कस्यचित्संख्येयगुणवृद्धस, कस्यचिदमसंख्येयगुणवृद्धम् , कस्यचिद. नन्तगुणवृद्धं वेत्यर्थः ।
यथाप्रवृत्तकरणाऽपूर्वकरणयोरध्यवसायस्थानसत्कतीव्रतामन्दतयोर्वक्तव्यतां निरूप्याऽपूर्व करणस्य निर्वचनमभिधित्सुराह
-
*टिप्पण- यथाप्रवृत्तकरणसत्कसर्वाऽध्यवसायस्थानेभ्योऽपूर्वकरणस्य सर्वाण्यध्यवसायस्थानान्य
संख्येयगुणानि भवन्ति । उक्तं च लधिसारे -"यथाऽधःप्रवृत्तकरणपरिणामा व्याख्यातास्तथा. ऽपूर्वकरणपरिणामा व्याख्यातव्याः । अयं तु विशेषः अधःप्रवृत्तकरणपरिणामेभ्योऽसंख्येयलोकमात्र
भ्योऽपूर्वकरणपरिणामा असंख्येयलोकगुणिता भवन्ति ।" 15 टिप्पणो कुदो अखलोगमेत्ताणि छटाणाणि अंतरिदूणेदिस्से समुष्पत्ति अब्भुवगमादो इति जयघवला
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org,