________________
पूर्वकरणाधिकारः
अध्यवसायस्थानानि ]
गुणवृद्धम् । ततः षष्ठसमय सत्कजघन्यमध्यवसायस्थानं षष्ठखण्डस्याऽऽद्यत्वेनाऽनन्तगुणवृद्धं भवति । एवं यावदेकादशखण्डस्य चरमाऽध्यवसायस्थानलक्षणाऽष्टमसमयस्योत्कृष्टाऽध्यवसायस्थानाद् द्वादशसमयस्य जघन्य मध्यवसायस्थ नं द्वादशखण्डस्याऽऽद्याऽध्यवसायत्वेनाऽनन्तगुणवृद्धं वाच्यम् । ततो नवमसमयस्योत्कृष्टाऽध्यवसायस्थानं द्वादशखण्डस्य चरमाऽध्यवसायस्थानत्वेनाऽनन्तगुणवृद्धं भवति, अत्र जघन्यवक्तव्यतायाः परिसमाप्तिः । अथ नवमसमयस्यो - त्कृष्टाऽध्यवसायस्थानमनन्तगुणं वृद्ध वाच्यं त्रयोदशखण्डस्य चरमाऽध्यवसायस्थानत्वात् । एवं यावद् द्वादशसमयस्योत्कृष्टाऽध्यवसायस्थानमनन्तगुणवृद्धं वाच्यम् ।
[ ३७
अस्य यथाप्रवृत्तकरणस्य द्वितीयं नाम 'पुत्र्वप्पवत्तमिइ नाम' त्ति, पूर्वप्रवृत्तमिति शेषकरणाभ्यां पूर्वं प्रवृत्तत्वात् । (पश्यन्तु पाठका यथाप्रवृत्तकरण- चित्रम् - १)
अथाऽपूर्वकरणमभिधीयते । यथाप्रवृत्त करणे समाप्ते सम्यक्त्वाऽभिमुखोऽपूर्वकरणं प्रवि
शति ।
अपूर्वकरणेऽपि पूर्ववत्प्रतिसमयं विशोधेरनन्तगुणावृद्धिर्जायते, तथाऽपि यथाप्रवृत्तकरणादस्य पृथक्करणे द्वे कारणे विद्येते ।
(१) यथाप्रवृत्त करणे तत्तत्समय वर्त्यव्यवसाय स्थानानां नानाजीवाऽपेक्षयोत्तरोत्तरसमयेअनुकृष्टिर्भवति तथेहानुकृष्टिर्न भवति किन्तु प्रतिसमयाप्राप्तान्येवऽपूर्वाण्यध्यवसायस्थानानि प्राप्यन्ते ।
"
(२) यथाप्रवृत्त करणे वक्ष्यमाणस्वरूपाः स्थितिघातादयो न भवन्ति, अत्र तु भवन्ति । इति द्वे करणे पृथक् क्रियेते ।
अध्यवसायस्थानप्ररूपणा - " परिणामट्ठा णाणं दोसुवि लोगा असंखिज्जा" इति पूर्वमुक्तं तथाऽप्यत्र विशेषतोऽध्यवसायस्थानानि निरूप्यन्ते । अपूर्वकरणस्य प्रथमसमयेऽध्यवसायस्थानानि नानाजीवाऽपेक्षयाऽसंख्येयलोकाकाशप्रदेशप्रमाणानि, तद्घटना तु पूर्ववत्कार्या तथा चात्र पूर्वपूर्वसमयादुत्तरोत्तरोत्तरसमयेऽध्यवसायस्थानानि विशेषाऽधिकानि भवन्ति । एवं यावदपूर्वकरणस्य चरमसमयं वाच्यम् ।
Jain Education International
अस्मिन्करणे सर्वाण्यध्यवसायस्थानान्युत्तरोत्तरसमयेऽप्राप्तान्येव प्राप्यन्ते, न तु यथाप्रवृत्त करणाऽध्यवसायस्थानवत्प्राप्ताऽप्राप्तन्युभयान्यपि प्राप्यन्ते, तथाहि - प्रथमसमये यान्यध्यवसायस्थानानि प्राप्तानि द्वितीयसमये तानि न प्राप्यन्ते, अपि त्वनन्तगुणवृद्धया प्रवर्धमानान्यप्राप्तानि विशेषाऽधिकानि प्राप्येन्त एवमुपर्युपरिमुखान्यनुचिन्त्यमानानि प्रतिसमयमनन्तगुण
For Private & Personal Use Only
www.jainelibrary.org