________________
३२] उपशमनाकरणम
[ गाथा१०-११ चरमसमय आगच्छतामध्यवसायस्थानानामपि चरमस्थ नमात्रवर्तित्वेन पूर्वमनागतत्वादननुकृष्टत्वं ज्ञेयम् । यथाप्रवृत्तकरणस्य प्रथमममयवर्तीन्यध्यवसायस्थानानि करणस्य संख्येयभागरूपकण्डकगतानि संख्येयसमयप्रमाणं यावदनुवर्तन्ते, तत आ यावद्भः समयेभ्यः प्रथमसमयस्याऽध्यवसायस्थानान्यनुकृष्यन्ते, तावन्ति खण्डानि कर्तव्यानि । तत्रापि पूर्वपूर्वखण्डेभ्यरुत्तरोत्तरखण्डानि विशेषाऽधिकानि विशेषाऽधिकानि द्रष्टव्यानि, यत उत्तरोत्तरसमये विशेषाऽधिकानि विशेषाधिकान्यध्यवसायस्थानानि विमुच्यन्ते । द्वितीयसमये पूर्वकृतानां खण्डानां प्रथमखण्डो विमुच्यते, तथा प्रथमसमयस्य चरमखण्डाद् विशेषाऽधिकमन्यत्खण्डं संकल्यते, तृतीयममये द्वितीयसमयस्याऽऽद्यखण्डं त्यज्यते, तथाऽनापि पूर्ववद् द्वितीयसमयस्य चरमखण्डात्संकल्यमानमन्यत्खण्डमपि विशेषाऽधिकं ज्ञेयम् । एव तावद् वाच्यं यावद्यथाप्रवृत्तकरणस्य संख्येय भागो गतो भवति ।
अत्र प्रथमसमयवर्तिनामध्यवसायस्थानानां चरमखण्ड स्याऽनुकृष्टिः परिसमाप्ता, ततः परं तस्याऽनुवृत्यमावात् । तदनन्तरं यथाप्रवृत्तकरणस्य प्रथमकण्डकस्य द्वितीयसमयवर्त्य ध्यवसायस्थानानां चरमखण्डस्याऽनुकृष्टः प्रथमकण्डकस्योपरितनाऽऽद्यसमये परिसमाप्ता । एवं तृतीयादिकसमयवर्तिचरमखण्डानामनुकृष्टौ परिसमाप्यमानायां यदा यथाप्रवृत्तकरणस्य चरमसमयः प्राप्यते, तदा यथाप्रवृत्तकरणस्य चरमकण्डकस्य चरमसंख्यातभागस्य प्रथमसमयवर्तिखण्डस्याऽनुकृष्टिः परिसमाप्ता भवति । इदन्त्ववधेयम् - प्रत्येकखण्डे प्रथमाऽध्यवसायस्थानस्य विशुद्धेश्वरमाऽध्यवसायस्थानस्य विशुद्धिरनन्तगुणा तथा कस्मिंश्चिदपि खण्डे चरमाऽध्यवसायस्थानस्य विशुद्धस्तदुत्तरखण्डस्य प्रथमाऽध्यवसायस्थानस्थ विशुद्धिरनन्तगुणा ज्ञेया । अस्मिन् क्रमे स्वीक्रीयमाण एव यथाप्रवृत्तकरणे विशुद्धिक्रमोपपत्तेः, तथा च प्रत्येकसमयस्याऽध्यवसायस्थानानां विशुद्धिः षट्स्थानपतिता, ततः प्रत्येक खण्डस्योपचरमाऽध्यवसायस्थानादनन्तभागवृद्ध विशुद्धं चरमाऽध्यवसायस्थानं वाच्यम् , ततः परस्याऽध्यवसायस्थानस्याऽनन्तगुणवृद्धत्वात् । किश्च षट्स्थानकेऽनन्तागुणवृद्धस्थानकात्पूर्वण स्थानेनाऽनात मागवृद्धेन भवितव्यमिति नियमात् । प्रथमसमयस्य प्रथमखण्डं केनाऽपि खण्डेन न सदृक्षम् , एवं चरमसमयस्य चरमखण्डं केनाऽपि सदृग् न भवति, मध्यसमयवतिखण्डानां परस्पर मादृश्यं विद्यते । तथाहि-यत्प्रथमसमयस्य द्वितीयखण्डं तदेव द्वितीयसमयस्य प्रथमखण्डम् , एवं प्रथमसमयस्य तृतीयं खण्ड तदेव द्वितीयसमयस्य द्वितीयं खण्ड तथा तृतीयसमयस्य प्रथम खण्डम् ।
अत्र प्रत्येक खण्डेऽध्यवमायस्थानान्यसंख्येयलोकालोकाशप्रदेशप्रमाणानि तथा प्रतिसमयमागच्छन्त्यध्यवसायस्थानान्यप्यसंख्येयलोकाकाशप्रदेशप्र-नागानि भवन्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org