________________
अनुकृष्टिः ]
यथाप्रवृत्तकरणाधिकारः
[ ३१
विशुद्धिरनन्तगुणा वाच्या, वक्ष्यमाण पूर्वकरणवत् । किन्त्वत्र तु यथाप्रवृत्त करणसत्कप्रथमसंख्यात भागचरमसमयं यावज्जघन्या विशुद्धिरुत्तरोत्तराऽनन्तगुणा तथा संख्यात भागस्य चरमसमयस्य जघन्यविशुद्धितो यथाप्रवृत्तकरणस्य प्रथमसमय उत्कृष्टा विशुद्धिरनन्तगुणा प्रागुक्ता । अतो यथाप्रवृत्तकरणस्य प्रथमसमयस्योत्कृष्ट विशुद्धेरपि यथाप्रवृत्तकरण सत्कप्रथम संख्यातभागस्यचरमसमये जघन्या विशुद्धिरनन्तगुणहीना भवति तथा प्रथम संख्यात भागस्योपरितनसमये जघन्या विशुद्धिर्यथाप्रवृत्तकरणस्य प्रथमममययुत्कृष्टविशुद्धि तोरनन्तगुणा ।
विशुद्धेरियं परिपाटिरध्यवसायानामनुकृष्टिं सूचयति । तद्यथा यथाप्रवृत्तकरणस्य प्रथमसमये यान्यध्यवसायस्थानानि तानि क्रमशस्तस्य संख्येयभागं प्रथमकण्डकसंज्ञं यावत्प्रतिसमयं हीयमानान्यनुवर्तन्ते तथा प्रथमकण्डकरूप संख्येयभागस्याऽग्रेतनसमये प्रथमसमय वर्त्येकमप्यध्यवसायस्थानं नाऽनुवर्तत इत्येवं द्वितीयसमयवर्तीन्यध्यवसायस्थानानि द्वितीयकण्डकस्य प्रथमसमयं यावदनुवर्तन्ते । एवं तृतीयसमयवतन्यध्यवसायस्थानानि द्वितीयकण्डकस्य द्वितीयसमयं यावद् गच्छन्ति एवं यथाप्रवृत्तकरणस्य चरमकण्डकस्य प्रथमसमयवर्तीन्यध्यवसायस्थानानि यथाप्रवृत्तकरणस्य चरमसमयं यावद् गच्छन्ति ।
अत्रेदमवधेयम् - प्रथमसमयवर्तीनि यावन्त्यध्यवसायस्थानानि, तावन्ति सर्वाणि द्वितीयसमये नाऽनुवर्तन्ते, किन्त्येककण्डकस्याऽसंख्येयसमयप्रमाणत्वात् प्रथमसमयवर्तिनो जघन्याऽध्यवसायस्थानादारभ्याऽसंख्येयतमं भाग मुक्त्वा शेषाणि सर्वाण्यध्यवसायस्थानानि द्वितीयसमये प्राप्यन्तेऽन्यानि चाऽऽयान्ति । न च जघन्याऽध्यवसायस्थानं कथमुच्यते, विशुद्धरेव जघन्यत्वमुत्कृष्टत्वं च भवतीति वाच्यम्, 'कारणे कार्योपचारः' इति न्यायेनाऽध्यवसायस्थानस्याऽपि जघन्यत्वमुत्कृष्टत्वं च घटते, तेन जघन्याऽध्यवसायस्थानं कोऽर्थः ? जघन्यविशुद्धि जनकमध्यवसायस्थानमित्यर्थः, तथा प्रथमसमयवर्तीनि यान्यध्यवसायस्थानानि मुक्तानि तदपेक्षया द्वितीयसमय आगच्छन्त्यध्यवसायस्थानानि विशेषाऽधिकानि भवन्ति । अत एव प्रथमसमयाऽपेक्षया द्वितीयसमयेऽध्यवसायस्थानानि विशेषाऽधिकानि भवन्ति । एवं यथाप्रवृत्तकरणस्य चरमसमयं यावद् वाच्यम्, तथा च प्रथमसमये चिमुच्यमानाऽध्यवसायस्थानेभ्यो द्वितीयसमये विमुच्यमानाऽध्यवसायस्थानानि विशेषाऽधिकानि भवन्ति, एवं यावद् द्विचरमसमयं ज्ञेयम् । किञ्च द्वितीयसमय आगच्छद्भयोऽध्यवसायस्थानेभ्यस्तृतीयसमय आगछन्त्यभ्यवसायस्थानानि विशेषाऽधिकानि । ततोऽपि चतुर्थसमय आगच्छन्त्यध्यवसायस्थानानि विशेषाऽधिकानि । एवं आ यथाप्रवृत्तकरण सत्कचरमसमयाद् वाच्यम् ।
यथाप्रवृत्तकरणस्य प्रथमसमये यान्यध्यवसायस्थानानि विमुच्यन्ते तानि केवलं प्रथमसमयवर्तीनि अग्रेतने कस्मिंश्चिदपि समये तेषां गमनाऽभावेन तान्यननुकृष्टान्युच्यन्ते । एवं
1
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org