________________
३० ] उपशमनाकरणम
। गाथा -११ ऊर्ध्वमुखी विशुडि:-पौर्वसामयिकविशुद्धयपेसयोत्तरमामयिकविशुद्धविमर्शनमूर्ध्वमुखी विशुद्धिरुच्यते । तद्यथा..."मंदविसोही' इत्यादि, इह द्वौ पुरुषो युगपद्यथाप्रवृत्तकरणप्रतिपन्नौ बुद्धावारोप्यते । एकः सर्वजघन्यया विशुद्धया यथाप्रवृत्त करणप्रतिपन्नः, अपरस्तु सर्वोत्कृष्ट या विशुद्धया । तत्र 'पढमस्स" ति प्रथमस्य' पुरुषस्य "मंदाविसोहो" ति, सर्वजघन्या विशोधिः, एतदुक्तं भवति सर्वजघन्यया विशुद्धया प्रतिपन्नम्य पुरुषस्य यथाप्रवृत्तकरणस्य प्रथमसमये सजघन्या विशोधिः सर्वस्तीका. ततो द्वितीयसमय जघन्या विशोधिरनन्तगुणा, ततस्तृतीयसमये जघन्यविशोधिरनन्तगुणा, एवं तावद्वाच्यं यावद्यथाप्रवृत्तकरण म्य ‘संखेज्जभागाहिआहि' त्ति, संख्येयभागो गतो भवति । अयं च यथाप्रवृत्तकरणम्य संख्येयभागो नाम्ना कण्ड कमिति विज्ञेयम् । प्रथमकण्डकस्य चरमसमयम्य जघन्य विशुद्धद्वितीयस्य पुरुषस्य यथाप्रवृत्तकरणस्य प्रथमसमय उत्कृष्टा विशोधिग्नन्तगुणा वाच्या।।
ततोऽपि प्रथमकण्डकम्योपरितन प्रथमसमये जघन्या विशोधिरनन्तगुणा, ततो यथाप्रवृत्तकरणस्य द्वितीयममय उन्कृष्टा विशोधिग्नन्तगुणा, ततः प्रथमकण्डकस्योपरितनद्वितीयसमये विशोधिरनन्तगुणा । ततो यथाप्रवत्तकरणस्य तृतीयसमय उत्कृष्टा विशोधिरनन्तगुणा । ततः प्रथमकण्डकम्योपरितनतृतीयममये विशोधिग्नन्तगुणा । एवम् 'उप्पिमहो" ति, उपर्यधश्चैकैकं विशोधिस्थानमनन्तगुणतया तावद् वाच्यं यावद्यथाप्रवृत्तकरणस्य चरमकण्डकस्य चरमसमये जघन्या विशोधिः । ततः 'आचरमाओ सेसुक्कोस' त्ति, चरममभिव्याप्य यथाप्रवृत्तकरणस्य चरमसंख्यातमागस्याऽर्थाच्चरमकण्ड कम्य योत्कृष्टा विशोधिग्नुक्ता सा क्रमेण निरन्तरमनन्तगुणा वाच्या । तथाहि-यथाप्रवृत्तकरणस्य चरमसमये या जघन्या विशुद्धिस्ततो यथाप्रवृत्तकरणस्य चरमकण्डकस्य योत्कृष्टा विशोधिग्नुक्ता मा प्रथमसमयेऽनन्तगुणा, ततो द्वितीयसमयेऽनन्तगुणा । एवं क्रमेण यावच्चरमसमयमुत्कृष्टा विशुद्धिर्वाच्या, उपयुक्तविशुद्धेः परिपाटियथाप्रवतकरणस्याऽध्यवसायस्थानानामनुकृष्टि ज्ञापयति । अतः सा विवण्यते ।
तत्राऽनुकर्षणमनुकृष्टिः "स्त्रियां क्तिः" सिद्धहेम (५।३.११) इति भावे 'क्ति' प्रत्यया, कतिपयानां प्राक्तनसमयस्थाऽध्यवसायस्थानानामग्रेतनसमयेऽनुवृत्तिरिति यावत् । इदमुक्तं भवति-प्रथमसमयस्थानि कतिपयाऽध्यवसायस्थानानि द्वितीयसमयेऽप्यनुवर्तन्ते, एवं तृतीयादिसमयेष्वपि, अन्यथा प्रथमसमयाऽपेक्षया द्वितीयसमयेऽध्यवसायस्थानान्येकान्तेन भिन्नान्येव स्युः । ननु यदि सर्वाण्येकान्तेन भिन्नान्येव स्युः, ततः किं स्यात् , इति चेदुच्यते, यदि प्रथमसमयाऽपेक्षया द्वितीयसमय एकान्तभिन्नान्येवाऽध्यवसायस्थानानि स्युस्तर्हि प्रथमसमयस्थसर्वोत्कृष्टविशुद्धाऽध्यवसायस्थानापेक्षया द्वितीयसमयस्य सर्वजघन्याऽध्यवसायस्थानकस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org