________________
तात्रमन्दते ]
यथाप्रवृत्तकरणाधिकारः
[ २६
भवन्ति, तथाहि - त्रिकालमाश्रित्य यथाप्रवृत्तकरणे प्रथम ममयवर्तिषु केषाञ्चिदनन्तानां जीवानामसंख्येयलोकाकाशप्रदेशप्रमाणाऽध्यवसायस्थानेभ्यः सर्वजघन्यमध्यवसायस्थानं यथाप्रवृत्तकरणप्रथमसमये भवति, इतरेषां केषाचिदनन्तानां जीवानामसंख्येयलोकाकाशप्रदेशप्रमाणाऽध्यवसायस्थानेभ्यः पूर्वतो विशुद्धतरमन्यदध्यवसाय स्थानं भवति, ततोऽपि विशुद्धतरमसंख्येयलो - काकाशप्रदेशप्रमाणाऽध्यवसायस्थानेभ्य इतरदध्यवसायस्थान मन्येषामनन्तानां जन्तूनां भवति । एवं तावद् वाच्यम्, यावदसंख्येयलोकाशप्रदेशप्रमाणाऽध्यवसायस्थानानामुत्कृष्टमध्यवसायस्थानम् । एवं शेषसमयेष्वप्यवगन्तव्यम् । इत्येवमनन्तानां जीवानां समानाऽध्यवसायस्थानत्वेनाध्यवसायस्थानानामसंख्येयत्वमविरुद्धम् । तेषामन्यतममध्यवसायस्थ'नं यथाप्रवृत्तकरणस्य प्रथमसमये भवति । एवं शेषेषु समयेष्वप्यवगन्तव्यम् ।
यथाप्रवृत्तकरणस्याऽध्यवसायस्थानानां प्ररूपणां कृत्वा तेषां तीव्रतामन्दतानिरूपणं चिकी
राह-
मंद विसोही पदमस्स संखभागाहि पढमसमयम्म | उक्करसं उपिमहो एक्केकं दोराह जीवाणं ॥ १० ॥ श्राचरमा सेसुक्कोस्सं पुव्वप्पवत्तमिइ नाम 1 fasta fasयसम जहराणावि श्रांतरुकसा ॥११॥ नन्दविशोधिः प्रथमस्य सख्यभागात् प्रथमसमये । उत्कृष्टमुपयंघ एकैकं द्वयोर्जीवयोः ॥ १० ॥ आचिरमाच्छेषोत्कृष्टा पूर्वप्रवृत्तमिति नाम द्वितीयस्य द्वितीयसमये जघन्याऽप्यनन्त रोत्कृष्टा ॥ १ १ ॥ इति । यत्र तत्तत्समयवर्तिनां जीवानां समानमध्यवसायस्थानं भवति, तत्र सर्वेषां विशुद्धिपि समाना विद्यते, विशुद्धेर्न किञ्चिद्वैषम्यम् । अत्र तु यथाप्रवृत्तकरणस्य प्रतिसमय मध्यवसायस्थानान्यसंख्येयलोकाकाशप्रदेशप्रमाणानि, ततो यथाप्रवृत्त करणे तत्तत्समयवर्तिनां जीवानां विशुद्धंरपि भिन्नत्वम्, केषाञ्चिज्जघन्या केषाञ्चिद् मध्यमा केषाञ्चिदुत्कृष्टा विशोधिरित्यर्थः । एतदुक्तं भवति - तत्तत्समयवर्तिनां जन्तूनां विशुद्विभेदेऽसख्येयलोकाकाशप्रदेशप्रमाणानि षटूस्थानक - पतितान्यध्यवसायस्थानानि भवन्ति । तथाहि - यथाप्रवृत्त करणे प्रथमसमयवर्तिषु जीवेषु कस्यचिज्जीवस्याऽपेक्षया तदन्यस्याऽनन्तभागवृद्धम्, असंख्यात भागवृद्धम्, संख्यात भागवृद्धम्, संख्यातगुणवृद्धम्, असंख्यातगुणवृद्धम्, अनन्तगुणवृद्ध वाऽध्यवसायस्थानं भवति, एवं कस्यचिज्जीवस्याsपेक्षया तदन्येषां भिन्नभिन्नजन्तूनां षड्विधहानिविशिष्टान्यध्यवसायस्थानान्यपि भवन्ति, एवं सर्वसमयेषु वाच्यम् । इयं तिर्यङ्मुखीविशुद्धिरुच्यते । यत्र तत्तत्समयस्थानामसंख्येयलोकाकाशप्रदेशप्रमाणाऽध्यवसायस्थानानां परस्परं विशुद्धिर्विमृश्यते सा तिर्यङ्मुखी विशुद्धिरुच्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org