SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ उपशमनाकरणम् [ गाथा इदमत्राऽवधेयम् - - यथाप्रवृत्त करणम्य चश्मसमयमभव्यसिद्धिका अपि प्राप्नुवन्तीत्येतदुक्तम्, तत्र विशुद्धयपेक्षयोभयेषां भव्याऽभव्यानां यथाप्रवृत्तकरणं भिन्नमस्तीति प्रतिभासते, यतो यथाप्रवृत्तकरणात्पूर्वाऽवस्थायां विशुद्धिं प्रदर्शयता ग्रन्थकृता ग्रन्थिकसत्त्वाऽभव्याऽपेक्षयाऽनन्तगुणवृद्धया विशुद्धिः सम्यक्त्वाऽभिमुखस्य भव्यस्य करणत्रयस्य पूर्वावस्थायां दर्शिता, ततोऽपि प्रति समयमनन्तगुणवृद्ध्या विशुद्धिः प्रवर्धमाना भवति, तेनोभयोर्यथाप्रवृत्तकरणं विशुयापेक्षया भिन्नं वक्तव्यम् । २८ ] "अणुसमयं " ति. अनुममयं = समये समय इति वीप्सायां "योग्यतावीप्सार्थाऽनतिवृत्तिसादृइये” (सिद्धहेम ० ३ | १ |४० ) इति सूत्रेण । व्ययीभावसमासः “अज्झवसाणाणं" इत्यादि, अध्यवसानानामनन्तगुणनया विशुद्धया प्रवर्धमानो यावत्करणसमाप्तिर्भवति, तावन्निरन्तरं वर्धते । कियन्ति पुनरध्यवसायस्थानकानि प्रत्येकं करणेषु लभ्यन्त इति चेद्, उच्यते"परिणामहाणाणं दासु वि लोगा असखिज्जा" द्वयोरपि यथाप्रवृत्ता पूर्वकरणयोः परिणाम स्थानानामनुसमयमसंख्येयलोकाकाशप्रदेशप्रमाणानि । इयमत्र भावना- यथाप्रवृत्त करणस्य प्रथमसमयेऽध्यवसायस्थानकान्यसंख्येयलोकाकाशप्रदेशप्रमाणानि भवन्ति । यथाप्रवृत्तकरणस्य द्वितीये समयेऽप्यध्यवसायस्थानान्यसंख्येयलोकाकाशप्रदेशप्रमाणानि भवन्ति, किन्तु पूर्वतो विशेषाऽधिकानि, एवं द्वितीयात्समयातृतीयसमये विशेषाऽधिकानि एवं यथाप्रवृत्तकरणस्य चरमसमयं यावद् वाच्यम् । यथाप्रवृत्तकरणस्य द्विचरमसमयाऽपेक्षया चरमसमयेऽध्यवसायस्थानकानि विशेषाऽधिकानि वक्तव्यानि तथा चैतान्युपर्युपरिमुखान्यनुचिन्त्यमानान्यनन्तगुणवृद्धया प्रवर्धमानान्यध्यवसायस्थानानि तिर्यक् च षट्स्थानपतितानि । स्थाप्यमानान्यध्यवसायस्थानानि विषमचतुरस्र क्षेत्रमास्तृणन्ति । न चैकस्मिन्समय एकस्य जीवस्यैकमेवाऽध्यवसायस्थानं भवति, अत्र यथावृत्तकरणस्य प्रथमसमयेऽसंख्येयलोकाकाशप्रदेशप्रमाणान्यध्यवसायस्थानानि भवन्तीति कथमुच्यत इति वाच्यम्, यतः सत्यमेतत् यद्यप्येकस्मिन्समय एकस्य जीवस्यैक एवाऽध्यवसायस्थानं विद्यते । तथाऽपि त्रिकालमाश्रित्य यथाप्रवृत्तकरणे प्रथमसमयवर्तिनानाजीवाऽपेक्षयाऽसंख्ये यलोकाकाशप्रदेशप्रमाणान्यध्यवसायस्थानानि वक्तव्यानि । " ननु यथाप्रवृत्तकरणस्य प्रथमसमयं स्पृशन्तस्त्रिकालमाश्रित्य जीवा अनन्ता भवन्ति, अध्यवसायस्थानानि त्वसंख्येयलोकाकाशप्रदेशप्रमाणान्यभिहितानि, अनन्तानि कथं न वाच्यानि ? उच्यते, यद्यपि जीवा अनन्तास्तथाऽप्यध्यवसायस्थानान्यसंख्येयलोकाकाशप्रदेशप्रमाणानि, यतो यथाप्रवृत्तकरणे प्रथमसमयवर्तिनां बहूनामनन्तानां जीवानां समानान्यध्यवसायस्थानानि १ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001832
Book TitleKarmaprakrutigatmaupashamanakaranam
Original Sutra AuthorShivsharmsuri
AuthorGunratnasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages332
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy