________________
अव्यवसायस्वानानि ] यथाप्रवृत्तकरणाधिकारः
[ ३३ यथाप्रवृत्तकरणस्य सर्ववक्तव्यताऽसत्कल्पनया स्थापना यन्त्रम् (पृ. ३४) आश्रित्य प्रदर्यतेप्रथमसमये प्रथमाऽध्यवसायस्थानादारभ्य चतुरधिकसहसतमपर्यन्तान्यध्यवसायस्थानानि चतुरविकसहस्र भवन्ति । द्वितीयममये प्रथमाऽऽयवसायस्थानादारभ्याऽष्टचत्वारिंशदधिकद्विशततपाऽध्यवसायस्थानपर्यन्तान्यध्यवसाय स्थानान्यष्टचत्वारिंशदधिकद्विशनं विमुच्यन्ते । तथा पश्चाऽधिकसहस्रतमाऽध्यवसायस्थानादारभ्य षष्टयधिकद्वादशशततमाऽध्यवसायस्थानानि षट्पश्चाशदुत्तरद्विशतसंख्याकान्यागच्छन्तीत्यर्थः, अतो नवचत्वारिंशदधिकद्विशततमाऽध्यवसायस्थानादारभ्य षष्टय त्तरद्वादशशतमाऽव्यवसायस्थानपर्यन्तान्यध्यवसायस्थानानि द्वितीयसमये द्वादशाऽधिकसहस्रप्रमाणानि भवन्ति । तृतीयसमये नवचत्वारिंशद्विशततमाऽध्यवसायस्थानादारभ्याऽष्टानवत्यधिकचतुःशततमाऽध्यवसायस्थानपर्यन्तान्यध्यवसायस्थानानिपञ्चाशदुत्तरद्विशतं विमुच्यन्ते. एकषष्टयधिकद्वादशशततमाऽध्यवसायस्थानादारभ्याऽष्टादशाऽधिकपञ्चदशशततमाऽध्यवमायम्थानपर्यन्तान्यध्ययमायम्थानान्यष्टपश्चाशदुत्तरद्विशतप्रमाणान्यागच्छन्ति सङ्कल्यन्त इति यावत् , अतस्तृतीयसमये नवनवतिचतुःशततमाऽध्यवसायस्थानादारभ्याऽष्टादशाऽधिकपञ्चदशशततमाऽध्यवसायस्थानपर्यन्तान्यध्यवसायस्थानानि विशत्यधिकसहस्रप्रमाणानि भवन्ति । एवमाद्वि चरमसमयं वाच्यम् ।
टिचरमसमय एकमप्तत्यधिकपश्चविंशतिशततमाऽध्यवसायस्थानादारभ्य चतुःपश्चाशतपाटत्रिंशच्छततमाऽध्यवसायस्थानपर्यन्तान्यध्यवसायस्थानानि चतुरशीत्यधिकसहस्रम ; तेभ्यश्चरमममय एकसप्तत्युत्तरपञ्चविंशतिशततमाऽध्यवसायस्थानात्प्रभृत्यष्टात्रिंशदधिकाऽष्टाविंशतिशततमाऽ. ध्यवसायस्थानपर्यन्तान्यध्यवसायस्थानान्यष्टषष्टयधिकद्विशतप्रमाणानि विमुच्यन्ते तथा पञ्चपञ्चाशदधिकषत्रिंशच्छततमाऽध्यवसायम्थानादारभ्य त्रिंशदधिकोनचत्वारिंशच्छततमाऽश्यवसायस्थानपर्यवमानानि षट्सप्तत्यधिकद्विशततमन्यान्यागच्छन्ति;अत एकोनचत्वारिंशदधिकाऽष्टाविंशतिशतनमाऽध्यवसायस्थानादारभ्य त्रिंशदधिकैकोन चत्वारिशच्छततमाऽध्यवसायस्थानपर्यन्तानि द्विनवतिदशशतप्रमाणान्यध्यवसायस्थानानि चरमसमये भवन्ति । अत्राऽपुनरुक्ताऽध्यवसायस्थानानि त्रिंशदधिकैकोनचत्वारिंशच्छतप्रमाणानि भवन्ति; पुनरुक्तान्यध्यवसायस्थानानि षटमप्रत्युत्तरपञ्चशतद्वादशसहस्रप्रमाणानि भवन्ति ।
तत्समयवत्यध्यवसायस्थानानां चत्वारि खण्डानि क्रियन्ते, ततः सर्वाण्यष्टाचत्वारिंशग्वण्डानि भवन्ति, यद्यपुनरुक्तानि खण्डानि परिगण्यन्ते, तर्हि पञ्चदशैव खण्डानि भवन्ति, तद्यथा- २४८, २५०, २५२. २५४, २५६, २५८, २६०, २६२, २६४, २६६, २६८, २७०, २७२, २७४, २७६ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org