________________
२६] उपशमनाकरणम्
[ गाथा-८ उद्वलयतो जन्तोर्मिश्रस्योदययोग्या स्थितिः पूर्वतोऽधिका वाच्या, एकेन्द्रियत आगतस्य संज्ञिपञ्चेन्द्रियस्यैव मिश्रस्य जघन्यस्थित्युदीरणायाः स्वामित्वेन निर्देशात् । एवमेव मिथ्यात्वगुणस्थानक उद्घलयतो जन्तोः सम्यक्त्वमोहनीयस्योदयाऽयोग्या स्थितिस्तावत्येव संभाव्यते ।
तथा सास्वादनस्य जघन्यमन्तरमपि पल्योपमाऽसंख्येयभागप्रमाणमस्मिन्मतेऽप्युपपन्न भवति, यत उभौ सम्यक्त्वमिश्रपुञ्जा उद्वलनामङक्रमेण पल्योपमासंख्येयभागे व्यतिक्रान्त एवोदयायोग्यौ भवतः ।
स्थितिसत्ता-"गिरिनदीपाषाणवृत्तता" इति न्यायेनास्मिन्संसारे संसरता प्राणिनां स्थितिरन्तःसारारोपमकोटाकोटीप्रमाणा यावन्न भवति, तावत्कोऽप्युपशमसम्यक्त्वाऽभिमुखो न भवति । अतः सत्तायां स्थितिरन्तःसागरोपमकोटाकोटीप्रमाणैव विद्यते ।
(१९) अनुभागसत्ता-सम्यक्वाभिमुखस्य सत्तायां याः प्रकृतयस्सन्ति, तासामजघन्यानुत्कृष्टोऽनुभागो विद्यते । तत्राप्रशस्तानां प्रकृतीना द्विस्थानकः प्रशस्तानां प्रकृतीनां बध्यमानानां चतु:स्थानकोऽवध्यमानानां द्विस्थानको वा त्रिस्थानको वा चतुःस्थानको वा सत्तायां भवति ।
__(२०) प्रदेशसत्ता- सम्यक्त्वाऽभिमुखस्याऽजधन्याऽनुत्कृष्टा प्रदेशसत्ता भवति । प्रथमोपशमसम्यक्त्वमुत्पादयतो योग्यता लक्षणाऽन्तमुहूर्तप्रमाणभूमिकाया वक्तव्यतां विम्तम्त उक्त्वा करणत्रयस्य कालनिर्देशसहितां वक्तव्यतामुपशान्ताद्धां च व्याजिहीर्ष राह
करणं अहापवत्तं अपुचकरामनियट्रिकरणां च । अंतोमुहुत्तियाइं उवसंतद्धं च लहई कमा ॥॥
करणं यथा प्रवृत्तमपूर्वकरणमनिवृत्तिकरणं च ।
आन्तमौहूतिकान्युपशान्ताद्धां च लभते कमात् ॥८॥ इति पदसस्कारः । करणकालात्पूर्वमन्तमुहर्तकालं यावदुपयुक्तविशुद्धथा प्रवर्धमानः करणत्रयं करोति, तत्र करणं परिणामविशेषः । आदौ यथाप्रवृत्तं करणं करोति, ततः क्रमेणाऽपूर्वकरणमनिवृत्तिकरणं च करोति । एतानि त्रीण्यपि करणानि प्रत्येकमन्तमुहूर्तप्रमाणानि, करणत्रयकालोऽप्यन्तमु हूर्तप्रमाण एव । तत्राऽनिवृत्तिकरणकालात्संख्येयगुणोऽपूर्वकरणकालस्तथा चोवतं कषाय प्राभतचूर्णा अल्पबहुत्वाऽधिकारे त्रयोविंशतिशततमसूत्रे "अणिपटिअडा संखेज्जगुणा १२४ अपुव्वकरणाडा सखेज्जगुणा ।" करणत्रयनिष्पादनक्रमादनन्तरमुप
ॐ जयघवलायामप्रशस्तानामनुभागसत्कर्म द्विस्थानकं प्रशस्तानां च चतुःस्थानकं विद्यते इत्युक्तम् । तरक्षराणि त्वेवम् .."अणुभागसंतकम्मपि पप्पसस्थाणं कम्माणं .. बिट्ठाणियानुभागसंतकमिओ पसत्थाणं पि पयडोणं च उट्ठाणाणुभागसंतकम्मिनों' (जय धवला पृष्ठ १६९८)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org