________________
प्रकृतिसत्ता 1 औपमिकसम्यक्त्वाधिकारः
[ २५ सम्यक्त्वमोहनीयोद्वलनायाः परतो मिश्रमोहनीयं च पल्योपमाऽसंख्येयभागेन कालेन सर्वथोद्वलयति, तत एव षविंशतिसत्कर्मा भवति, नाऽवाक् । ततः कश्चिद् षड्विंशतिसत्कर्मा जन्तुः करणत्रयेण भूयोऽष्टाविंशतिसत्कर्मा भवेत् तर्हि मोहनीयकर्मण सप्तविंशतिसत्कर्मणो जघन्याऽ वस्थानकालोऽष्टाविंशतिसत्कर्मणां जघन्यमन्तां च पल्योपमाऽसंख्येयभागप्रमाणमेव भवेन्न समयप्रमाणम् ।
कषायप्राभतचूर्णिकारस्तु सप्तविंशतिसत्कर्मणो जघन्याऽवस्थानकालोऽष्टाविंशतिसत्कमणश्च जघन्यमन्तरमेकसमयप्रमाणमेव स्वीकृतमिति सप्तविंशतिसत्कर्मणो जघन्याऽवस्थानकालम्याऽष्टाविंशतिसत्कर्मणो जघन्याऽन्तरम्योपपत्तये सप्तविंशतिसत्कर्माऽष्टाविंशतिसत्कर्माऽपि प्रथमोपशमिकसम्यक्त्वमुत्पादयतीत्यवश्यमभ्युपगन्तव्यम् । तथाहि-मिथ्यात्वगुणस्थानके सम्यक्त्वसम्यक्त्वमिथ्यान्वपुजी तावदुवलयति यावदन्तमुहूर्तन्यूनपल्योपमासंख्येय भागो व्यतिक्रान्तो भवति । ततः कश्चिदुपशमसम्यक्त्वाभिमुखो जीवो यथाप्रवृत्तादीनि त्रीणि करणानि करोति । यदा तेनाऽनिवृतिकरणम्य विचरमसमयः प्राप्यते, तदा सर्वसमयक्त्वपुञ्जमद्वलितं भवति, न किश्चित्सत्तायामवतिष्ठते । अतस्तस्य जन्तोर्मोहनीयस्य सप्तविंशतिसत्कर्म भवति । तत औपशमिकसम्यक्त्वप्राप्तिसमये त्रिपुञ्जकरणेनाष्टाविंशतिसन्कर्म प्राप्यत इति सप्तविंशति सत्कर्मणोऽवस्थानकाल एकसमयप्रमाणस्तथेवाऽष्टाविंशतिसत्कर्मणो जघन्याऽन्तरमप्येकसमयप्रमाणमुपपद्यते, अत्र जघन्याऽन्तरस्योपपत्तयेऽसो प्रक्रिया प्रदर्शिता । अन्यः कश्चिज्जन्तुस्त्वनिवृत्तिकरणस्य चरमसमयपर्यन्तमप्युद्वलयन्नुपशमसम्यक्त्वप्राप्तिसमयेऽपि सर्वथा सम्यक्त्व. मोहनीयं निस्सत्ताकं न करोतीति मोहनीयस्याऽष्टाविंशतिसत्कर्मा सन्नपि प्रथमोपशमिकसम्यकत्वमश्नुते ।
इदमत्र हृदयम् :-सम्यक्त्वतः पतित्वा मिथ्यात्वं गतो जन्तुरन्तमुहर्ते व्यतिक्रान्ते सम्यक्त्वमिश्रपुञ्जयोरुद्वलनामारभते । उद्वलनामक्रमेणोद्वलयतो जन्तोर्यावदुदयाऽयोग्या स्थितिः सत्तायां न भवेत्तावद्यदि कश्चिज्जन्तु सम्यक्त्वं लमेत, तर्हि क्षायोपशमिकमेव । यदोद्वलयता जन्तुना सत्तायामुदयाऽयोग्या स्थितिः प्राप्यते, तनः प्रभृति करणत्रयपूर्वकमीपशमिकमम्यक्त्वमेव लभते, न क्षायोपशामकम् । इत्थं सप्तविंशतिसत्कर्माऽष्टाविंशतिसत्कर्मा वा प्रथमोपमिकसम्यक्त्वं प्राप्तुमर्हति । ननु कियती स्थितिरुदयाऽयोग्या भवतीति चेद् , उच्यतेजघन्यतः पल्यापमाऽसंख्येयभागोनसागरोपमप्रमाणस्थितिरुदययोग्या, ततो हीना स्थितिरुदयाऽयोग्या, कथमेतदवसीयते ? इति चेद् , उच्यते-मिश्रमोहनीयस्य जघन्यस्थित्युदीरणकेन्द्रिय जातावुद्वलयतस्तत आगतस्य संज्ञिपञ्चेन्द्रियस्य पल्योपमाऽसंख्येयभागोनसागरोपमप्रमाणोक्ता, तस्मात्तावत्येव स्थितिरुदययोग्या, ततो हीनोदयाऽयोग्या । किन्तु त्रसकाय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org