________________
उपशमनाकर गम
[ गाथा - ३ ७
क्षायोपशमिकसम्यग्दृष्टिशन्तमौहूर्तिकायुषि शेषे मिथ्यात्वं गच्छति, स पुनरौपशमिकसम्यन प्रतिपद्यते, किन्तु मृत्वा नरके पर्याप्तः सन् म । नारकः क्षायोपशमिकसम्यक्त्वमे वाऽश्नुते । अत उपशमसम्यक्त्वाऽभिमुखस्य जिननाम मत्त्वे न भवति । इत्थं सम्यक्त्वाऽभिमुखस्य सत्तायामष्टात्रिंशच्छत मे कोनचत्वारिंशच्छतं वा प्रकृतयो भवन्ति । तत्र पविंशतिशतं प्रकृतयो ध्रुवसत्ताकाः । ध्रुवत्वं चाssसामनादिमिथ्यादृष्टेः सत्तायामवश्यं भावात् । अध्रुवसत्ताकाश्च द्वादश त्रयोदश वा तत्र तेजोवायुकायिकजीवमध्यादागतस्याऽपर्याप्ताऽवस्थायामन्तमुहूर्त यावद् मनुष्य द्विकमुच्चेगोत्रं च सच्चे न विद्येते । तत ऊर्ध्वमवश्यं बध्यमानत्वेन वासां सत्कर्म भवत्येव । तथा चैकेन्द्रि येण देवद्विकनरकाद्विक क्रियशरीरसंघातबन्धनाङ्गोपाङ्गलक्षण क्रियचतुष्करूपा अष्टौ प्रकृतय उद्बलनासङ्क्रमेणोद्वन्यन्ते तस्मादेकेन्द्रियावस्थायामासामभावोऽपि भवति । एकेन्द्रियान्निष्क्रान्तस्य संज्ञिपञ्चेन्द्रियस्याऽप्यासामभावोऽल्पकालपर्यन्तमेव । अन्तर्मुहूर्ते व्यतिक्रान्ते सत्तायामेताः प्रकृतयो बन्धद्वारेणाऽवश्यं प्राप्यन्ते । तेनैता उपशममम्यक्त्वाऽभिमुखस्य सत्तायामवश्यं भवन्ति । इत्थं सम्यक्त्वाऽभिमुखस्य वेद्यमानाऽऽयुषा सह ध्रुवसत्ताकाष्पविंशतिशतं देवद्विकनरकाद्विकवैक्रिय चतुष्कमनुष्यद्वि कोच्चैर्गोत्ररूपाश्च द्वादश प्रकृतय इत्यष्टात्रिंशच्छतं चंद्रपरभवायुष्कस्य त्वेकोनचत्वारिंशच्छतं प्रकृतयः सत्तायां भवन्ति ।
२४ ]
1
अत्र कषायप्रामृतचूर्णिकृतो मतानुसारेण मोहनीयस्य सप्तविंशतिसत्कर्माऽष्टाविंशतिसत्कर्मा वाऽपि प्रथमोपशमसम्यक्त्वमुत्पादयति ।
"
ननु मोहनीयस्य सप्तविंशतिसत्कर्माऽष्टाविंशतिसत्कर्मा वा प्रथमोपशमसम्यक्त्वं लभत इति कषायप्राभूतचूर्णिकारैरुक्तम् कथमेतदवसीयत इति चेद् उच्यते- प्रकृतिविभक्त्यधिकारे मोहनीयस्य सप्तविंशतिसत्कर्मणोऽवस्थान कालो जवन्यत एकसमयप्रमाणः कषायप्राभूतचूर्णिकारे भणितस्तद्यथा--"सत्तावीस विहत्ती केवचिर कालादो ! जहणेण एगसमओ ।" तथा सत्तास्थानकस्याऽन्तरद्वारेऽष्टाविंशतिसत्कर्मणो जघन्यमन्तरमेकसमयप्रमाणं भवति, अक्षराणि त्वेवम् - "अट्ठावीस विहत्तस्स जहणणेण एगसमओ ।" इदमन्तरमुपशमसम्यक्त्वाऽभिमुखस्य सम्यक्त्वमिश्र पुज्जयोः सत्कर्म अभ्युपगम्यैवोपपन्नं भवति, अन्यथाऽष्टाविंशतिसतास्थानकस्य जघन्यमन्तरं सप्तविंशतिस्थितिस्थानकस्य च जघन्यतोऽवस्थानकालोऽपि पल्योपमाऽसंख्येयकालप्रमाणो भवेत्, यतः सम्यक्त्वतः परिभ्रश्य मिथ्यात्वं गतोऽष्टाविंशतिसत्कर्मा सम्यक्त्वमोहनीयं मिश्रमोहनीयं चोद्वलयितुमारभते । पल्योपमाऽसंख्येयभागेन कालेनोद्वलिते सम्यक्त्वमोहनीये तस्य सप्तविंशतिसत्कर्म भवति । अत्रं यदि षड्विंशतिसत्कर्मा प्रथमसम्यक्त्वमासादयतीत्यभ्युपगम्यते, तर्हि मिश्रमोहनीयमप्युद्वलितव्यम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org