________________
[२३
प्रकृतिसत्ता ]
औपशमिकसम्यक्त्वाधिकारः पमाऽसंख्येयभागः, इतरगुणस्थानकानां तु जघन्यमन्तर्मुहुर्तमित्यक्षरार्थः ।
भावार्थः पुनरयम् -योऽनादिमिथ्यादृष्टिरुद्वलितसम्यक्त्वमिश्रपुञ्जो वा मिथ्यादृष्टिः षड़विंशतिसत्कर्मा सन्नन्तरकरणादिप्रकारेणोपलब्धौपशमिकसम्यक्त्वोऽनन्तानुवन्ध्युदयात्सास्वादनभावमासाद्य मिथ्यात्वं गतस्सन यदि तदेव सास्वादनं पुनर्लभतेऽन्तरकरणप्रकारेणैव, तदा जघन्यतोऽपि पल्योपभाऽसंख्येयभागोर्ध्व गतस्य प्रथमसमये सम्यक्त्वमिश्रपुजौ सत्तायामवश्यं तिष्ठत एव । न च तयोः सत्तायां वर्तमानयोः पुनरुपशमसम्यक्त्वं लभते । तदभावा. सासादनं दुरापास्तमेव । तथा चाऽग्रेऽप्यस्या एव गाथायाष्टीकायामुक्तम् "तता पल्योपमा. ऽसंख्येयभागेन मिश्रसम्यक्त्वपुञ्जयोरुदलितयोस्तदन्ते कश्चिज्जन्तुः पुनरप्योपशमिकसम्यक्त्वमासाद्य सासादनत्वं गन्तीत्येवं सासादनस्य पल्योपमाऽसं. ख्येयभागोऽन्तर भवतीति ।
। एतेन स्पष्टं भवति यावत्सम्यक्त्वमिश्रपुजौ सत्तायां भवतस्तावत्कश्चिदपि मिथ्यादृष्टिजन्तुरुपशमसम्यक्त्वं प्राप्तु नाहति । अतः औपशमिकसम्यक्त्वमुत्पादयतः सम्यक्त्वमोहनीयमिश्रमोहनीये प्रकृती सत्तायां न भवतः । तेन सम्यक्त्वमोहनीयमिश्रमोहनीयायुखिकाऽऽ. हारकचतुष्कजिननामकर्मरूपा दश प्रकृतयोपि सत्तायां न विद्यन्ते, शेवास्तु जघन्यतोऽष्टात्रिंशच्छतं प्रकृतयः सत्तायां भवन्ति, किन्तु बद्धपरभवायुष्कस्य त्वेकोनचत्वारिंशच्छतं प्रकृतयः मत्तायां भवन्ति ।
ननु प्रथममुपशमसम्यक्त्वमुत्पादयत आहारकचतुष्कं जिननाम च पञ्च प्रकृतयः सत्वेन भवितु कथं नाऽर्हन्तीति चेद् , उच्यते-योऽनादिमिथ्यादृष्टिस्तस्यैताः प्रकृतयस्सन्वेन न भवन्ति, यत आहारकचतुष्कमप्रमत्तप्रभृतिगुणस्थानकेऽविरतिसम्यग्दृष्टिप्रभृतिगुणस्थानके च जिननाम बध्यते । यः सादिः मिथ्यादृष्टिः सम्यक्त्वं प्रतिपद्य तदन्वप्रमत्तगुणस्थानकं न प्रापत् , अथवाऽप्रमत्तगुणस्थानकं प्राप्याऽपि नैयतिकबन्धाऽभावेनाऽऽहारकचतुष्कमबद्ध्या मिथ्यात्वं प्रतिनिवृत्तस्तस्याऽऽहारकचतुष्कं सत्वे न विद्यते, किश्च येन जन्तुनाऽप्रमत्तगुण. स्थानक आहारकचतुष्कं बद्धम् , यदि परिणामपतनेन मिथ्यात्वादिगुणस्थानकं लमेत, तर्हि तम्य पूर्वमुद्वलनामङ्क मेणाऽऽहारकचतुष्कं निःसत्ताकं भवति, तत ऊर्द्धमेव सम्यक्त्वमिश्रपुजी निःसत्ताको भवनः । एतेन सम्यक्त्वमिश्रपुञ्जयोनिःसत्रमाहारकचतुष्कस्य निःसवावं' भवति । तथा षड्विंशतिसत्कर्मा सन्नेव प्रथमं सम्यक्त्वमुत्पादयति, नाऽन्यः, तत्र मिश्रसम्यक्त्वपुजयोरभावादाहारकचतुष्काऽभावः सिद्ध एव ।
जिननामसत्कर्मा मिथ्यात्वं नाऽधिगच्छति, नवरं बद्धनरकायुष्कः जिननामसत्कर्मा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org