________________
२२] उपशमनाकरणम्
[ गाथा ३-७ १७ प्रकृतिसत्ता- चातुर्गतिकाः सम्यक्त्वमुत्पादयन्तो मिथ्यादृष्टयो जीवा द्विविधाः (१) अनादिमिथ्यादृष्टयः (२) सादिमिथ्यादृष्टयश्च
अनोपशमसम्यक्त्वोत्पादनायाऽधिकारः । अनादिमिथ्यादृष्टिना कदाऽपि सम्यक्त्वं न प्राप्तम् । ततस्तस्य जन्तोः सम्यक्त्वमोहनीयस्य मिश्रमोहनीयस्य च सत्ता न भवति, यतोऽनयोः प्रकृत्योः सत्ता सम्यक्त्वाऽभिमुखस्य मिथ्यादृष्टेमिथ्यात्वगुणस्थानकचरमसमयेऽथवा मताऽन्तरेण सम्यक्त्वप्राप्तिसमये सम्यग्दृष्टेस्त्रिपुञ्जकरणेन भवति । सम्यक्त्वतः पतितस्तु मिथ्यात्वगुणस्थानकवर्ती सादिमिथ्या दृष्टिस्तावदुपशमसम्यक्त्वं नोत्पादयति, यावद् द्वे प्रकृती उद्वलनासक्रमेण निस्सत्ताके न भवतः । किन्तु स झायोपमिकसम्यक्त्वं प्राप्तु समर्थों भवति । प्रथमगुणस्थानक उद्वलनासक्रमेण ते द्वे प्रकृती सत्कर्मतः विच्छियैव करणत्रयेण प्रथमोपशमिकसम्यक्त्वमश्नुते ।
न चानयोः प्रकृत्योरुद्वलनामृते पुनरुपशमसम्यक्त्वं कथं न प्राप्यत इति वाच्यम् , यतः सास्वादनगुणस्थानकस्याऽन्तरं जघन्यतः पल्योपमाऽसंख्येयभागोऽस्ति । सास्वादनगुणगुणस्थानकं चौपशमिकसम्यक्त्वतः परिपतता जन्तुना प्राप्यते, नाऽन्यथा । उपशमसम्यक्त्वतश्च पतित्वा पल्योपमाऽसंख्येयभागे काले व्यतिक्रान्त एव पुनरुपशमसम्यक्त्वमुत्पादयति, यतो मिथ्यात्वमासाद्य मिश्रसम्यक्त्वपुजा उद्वलनासक्रमेणाऽविनाश्य पुनरुपशमसम्यक्त्वं प्राप्तुं न शक्नोति । तथा मिश्रसम्यक्त्वपुञ्जयोर्विनाशश्वोद्वलनासंक्रमणेन पल्योपमाऽसंख्येयभागरूपेण कालेन भवति । अतः पञ्चसङ्ग्रहस्य द्वितीये द्वार एकषष्टितमगाथायाष्टीकायां सास्वादनगुणस्थानकस्याऽन्त प्रदर्शद्भिः श्रीमद्भिर्मलयगिरिसूरीश्वरैरुक्तम्...
इह सास्वादनमनुभूय भूयोऽपि सास्वादनभावं भजते, तहि नियमाज्जघन्यतोऽपि पल्पोपमाऽसंख्येयभागेऽतिकान्ते नाऽर्वाक । कथमेतदवसीयत इति चेद् , उच्यते-इह सास्वादनभावमासादयति नियमादौपशमिके सम्यक्त्वे वर्तमानो नाऽन्यथा, सास्वादनभावाऽनुभवतश्च मिथ्यात्वं गतोऽवश्यं भूयः सम्यकत्वमासादयति षड्विंशतिसत्कर्मा सन् करणत्रयपूर्वकमोपशमिकं नाऽन्यः, षड्विंशतिसत्कर्मा च भवति मिश्रसम्यक्त्वपुञ्जयोस्वलितयोः, तबुद्धलना च पल्यो. पमाऽसंख्येयभागरूपेण कालेन नाऽन्यथा । ततो भूयः सास्वादनभावप्रतिपत्तेरन्तरं जघन्यतोऽपि पल्योपमाऽसंख्येयभागः।
किश्च शतकनामकर्मग्रन्थस्य चतुरशीतितमाया गायायाष्टीकायां श्रीमद्भिदेवेन्द्रसूरीश्वरैरप्युक्तम्...तत्र सास्वादनगुणस्थानकस्य जघन्याऽन्तरं पल्यो.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org