________________
गाया ३-७ ] उपशमनाकरणम्
[१४ दृष्टेरुदये वर्तमानाः प्रकृतयो ज्ञानावरणस्य पञ्च, दर्शनावरणस्य चतस्रः, अन्तरायस्य पञ्च, मोहनीयस्याऽष्टकं नरकायुरेका वेदनीयस्यैका नीचैर्गोत्रं नामकर्मण एकोनविंशदिति चतुष्पश्चाशत् । उत्कृष्टतो भयजुगुप्साऽन्यतरनिंद्राभिस्सहिताः सप्तपश्चाशत्प्रकृतयः। इत्थं प्रथमसम्यक्त्वमुत्पादयतो नारकस्य चत्वायुदयस्थानकानि । सत्र प्रथममुदयस्थानकं चतुष्पश्चाशत्प्रकृत्यात्मकम् , द्वितीयमुदयस्थानकं पञ्चपञ्चाशत्प्रकृत्यात्मकम् , तृतीयोदयस्थानकं षट्पञ्चाशत्प्रकृत्यात्मकम् , चतुर्थोदयस्थानकं सप्तपश्चाशत्प्रकृत्यात्मकम् । तत्र प्रत्येकोदयस्थानकं भिन्नभिन्नप्रकृतीराश्रित्याऽनेकविधं भवति । कश्चित्क्रोधोदयविशिष्टो जीवः प्रथमसम्यक्त्वमुत्पादयति, कश्चिद् मानोदयविशिष्टः, कश्चिद् मायोदयविशिष्टः, कश्चन लोभोदयविशिष्टः । एवंविधाश्चत्वारो जीवा असातोदयविशिष्टाश्चत्वारः सातोदयविशिष्टा वा भवन्ति । इत्थमनेकविध प्रत्येकमुदयस्थानकं भवति ।
प्रकृतिभेदेनैकस्योदयस्थानकस्य यावन्तः प्रकारा भवन्ति, तावन्तस्तस्योदयस्थानकस्य भङ्गाः प्रत्येकोदयस्थानकस्य निम्नलिखिता भङ्गा ज्ञेयाः ।
चतुष्पश्चाशत्प्रकृत्यात्मकोदयस्थानके चतुर्णो क्रोधादीनामन्यतमकषायोदयः, हास्यरतिरूपयुगलशोकाऽरतिरूपयुगलयोरन्यतरस्य युगलस्योदयस्तथाऽन्यतरस्य वेदनीयस्योदयः । शेषाः प्रकृतय उदये न व्यत्यस्यन्ते, यतो नारकाणां नपुंसकवेदस्योदयो भवति तथा नामकर्मणो दुभंगदुःस्वराऽनादेयाऽयशाकीयशुभखगतिरूपाणामशुभानां प्रकृतीनामेवोदयो भवति । ___ अथ भङ्गाः परिगण्यन्ते चत्वारः कषाया युगलद्विकेन गुण्यन्ते, यतो द्वे युगले पर्यायेण प्राप्यते इति गुणिता अष्टौ भङ्गाः, ते च वेदनीयद्विकेन गुणिताः षोडशभङ्गाः, इति चतुष्पश्चाशत्प्रकृत्यात्मकोदयस्थानकस्य भङ्गा उक्ताः ।
स्थापना-कषायाः४-युगले२- वेदनीये २=संकलितभङ्गाः १६ ।
अथ कस्यचिज्जीवस्य मयेन जुगुप्सयाऽन्यतरनिद्रया वा युक्त पश्चपञ्चाशत्प्रकृत्यात्मकं भवति । तद्भङ्गास्त्वित्थं भावनीयाः । यदा भयेन युक्तमुदयस्थानकम् , तदा पूर्व एव षोडश भङ्गा भवन्ति, भयस्य एकप्रकृत्यात्मकत्वेन व्यत्यासाभावात्प्रतिपक्षत्वाभावच्च । यदा जुगुप्सया युक्तमुदयस्थानकम् , तदाऽपि पूर्व एव षोडश भङ्गा भवन्ति । यदा अन्यतरनिद्रया युक्तमिदमुदयस्थानकम् , तदा द्विकेन ते गुणिता द्वात्रिंशत् । इत्थं पञ्चपश्चाशत्प्रकृतिस्थानकस्य त्रयो विकल्पाश्चतुष्षष्टिः भङ्गाः ।
नन्वेकान्तविशुध्दद्या चतुःस्थानकरसबन्धकत्वेन साकारोपयोगस्यैवप्रतिपादितत्वेन निद्रोदयस्यासंभव एवेति कथं तद्भङ्गाः प्ररूप्यन्ते, अथ च स्त्यानचित्रिकसत्कमङ्गाश्च कथं न गण्यन्ते ? इति चेत् , उच्यते कर्मप्रकृतौ क्षपकश्रेणौ निद्राद्विकस्योदयानभ्युपगमेऽप्युपशमश्रेणा उप
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org