________________
गाथा ३-७) उपशमनाकरणम्
[ १२ टप्रटेशबन्धं वा करोति, शेषत्रिषष्टिप्रकृतीनामनुत्कृष्टमेव प्रदेशबन्धम् । तत्र मनुष्यतिर्य ग्भिध्यमानानां चतुष्पञ्चाशत्प्रकृतीनामुत्कृष्टप्रदेशबन्धनिषेधे यत्कारणमुक्तं, तदत्रापि ज्ञातव्यम् । अथ नवप्रकृतीनामुन्कृष्टप्रदेशबन्धे कारणं प्रोच्यते । तथाहि-औदारिकशरीरनामकर्मण उत्कृष्टप्रदेशबन्धमेकेन्द्रियप्रायोग्यास्त्रयस्तथा मनुष्यद्विकमोदारिकमौदारिकोङ्गोपाङ्गञ्चेति तिमृणां प्रकृतीनामुतकृष्टप्रदेशबन्धमपर्याप्तमनुष्यप्रायोग्याः पञ्चविंशति प्रकृतीर्वध्नन्नेव करोति । तथा मनुष्यस्तिर्यङ् वा सुभगत्रिकसम चतुरस्रसंस्थानसुखगतिरूपाणां पश्चप्रकृतीनामुत्कृष्टप्रदेशबन्ध देवगतिप्रायोग्या नामकर्मणोऽष्टाविंशतिप्रकृतीवघ्नन् करोति प्रस्तुते तु सम्यक्त्वाऽभिमुखो देवो नारको वा मष्नुयप्रायोग्यमेकोनत्रिंशत्प्रकृत्यात्मकबन्धम्थानं बध्नातीति कृत्वा नवानां प्रकृतीनामुत्कृष्टप्रदेशबन्धं न करोति । इत्थं त्रिषष्टि प्रकृतीनामुन्कृष्टप्रदेशबन्धं देवः सप्तमपृथ्वीनारकवर्जनारको वा न करोतीति कृन्वाऽनुत्कृष्टप्रदेशबन्धमेव करोति तथा पूर्वोक्तानामनन्तानुबन्ध्यादीनां नवानां प्रकृतीनामुत्कृष्ट प्रदेशबन्धं वा करोति ।
सप्तमपृथ्वीनारको द्विसप्तति प्रकृतीध्नाति । तत्र पूर्वोक्तानां नवानां तथा नीचैगोत्रस्योस्कृष्टयोग उत्कृष्टप्रदेशबन्धमनुत्कृष्टयोगेऽनुत्कृष्टप्रदेशबन्धं करोति । नवप्रकृतीनामुत्कृष्ट प्रदेशवन्धे बीजं पूर्वोक्तमेव तथा नीचैर्गोत्रस्योत्कृष्टप्रदेशबन्धमुत्कृष्ट योगी सम्यक्त्वाऽभिमुखः सप्तमपृथ्वीनारकोऽपि करोति । अतो दशानां प्रकृतीनामुत्कृष्टप्रदेशबन्धमनुत्कृष्टप्रदेशबन्धं वा करोति तथा शेषद्वापष्टिप्रकृत्यन्नतितिर्यग्द्विकस्याऽनुत्कृष्टप्रदेशबन्धं मिथ्या दृष्टिर्मनुष्यस्तिर्य ङ वैकेन्द्रियप्रायोग्यास्त्रयोविंशति प्रकृतीवघ्नन्नेव करोति । अतः सम्यक्त्वाऽभिमुखः सप्तमपृथ्वीनारको द्विषष्टिप्रकृतीनामनुत्कृष्टं प्रदेशबन्धं करोति तथा दशानां प्रकृतीनामुत्कृष्टमनुत्कृष्टं वा प्रदेशबन्धं करोति । उद्योतं वध्नन् सप्तमपृथ्वीनारकम्तु त्रिसप्तति प्रकृतीबध्नाति । तत्रेतरसप्तमनारकवदुद्योतं बध्नन् सप्तमपृथ्वीनारकोऽपि वज्रर्षभनाराचसंहननवर्जनवप्रकृतीनामुत्कृष्टयोगे वर्तमानउत्कृष्ट प्रदेशबन्धं करोति, अनुत्कृष्टयोगेऽनुत्कृष्टप्रदेशबन्धं करोति । उद्योतं बनतो जन्तोचत्रर्षभनाराचसंहननस्योत्कृष्टप्रदेशबन्धो न भवति, यतो नामकर्मण एकोनत्रिंशत्प्रकृत्यामत्के बन्धस्थानके वध्यमाने वज्रर्षभनारा वम्योत्कृष्टप्रदेशबन्धो भवति । उद्योतं बध्नञ्जीवो नामकर्मणस्त्रिंशत्प्रकृत्यात्मकं बन्धस्थानकं बध्नातीति कृत्वा नामकर्मणो वध्यमानप्रकृतीनामाधिक्यानपभनाराचसंहननस्योत्कृष्टप्रदेशबन्धं न करोति । शेषाण चतुष्षष्टिप्रकृतीनामनुत्कृष्टप्रदेशवन्धं करोति । तत्र वज्रषभनाराचस्योत्कृष्टप्रदेशबन्धनिषेधे कारणमुक्तम् , द्वापष्टिप्रकृतीनामनुत्कृष्टप्रदेशबन्धे कारणमुद्योतमबध्नन्सप्तमपृथ्वीनारकवज्ज्ञेयम् । तथोद्योतस्योत्कृष्ट प्रदेशबन्धमेकेन्द्रियप्रायोग्या उद्योतेन सह षड्विंशतिसंख्याः प्रकृतीर्वघ्नन् मनुष्यस्तिर्य वा करोति । तत उद्योतस्योत्कृष्टप्रदेशबन्धं सप्तमपृथ्वीनारको न करोति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org