________________
औपशमिकसम्यक्त्याधिकारः
[ प्रदेशबन्ध १२ प्रदेशबन्धः-पूर्वे 'योगवशाच्च प्रदेशाग्रमुत्कृष्टं मध्यमं जघन्यं च बध्नाति' इत्युक्तं तत्र विशेषो लिख्यते, तथाहि-प्रथममुपशमसम्यक्त्वमुत्पादयन्नात्मा मनुष्यस्तियङ्वाऽनन्तानुबन्धिचतुष्कस्त्यानद्धिंत्रिकमिथ्यात्वमोहनीयदेवद्विकवैक्रियद्विकसमचतुरस्त्रसंस्थानसुभगत्रिकसुखगतिरूपाणां सप्तदशानां कर्मप्रकृतीनां प्रदेशबन्धमुत्कृष्टयोग्यमुत्कृष्टमनुस्कृष्टयोग्यमनुत्कृष्टमेव प्रदेशबन्धं करोति । शेषचतुःपञ्चाशत्प्रकृतीनामनुत्कृष्टमेव प्रदेशवन्धं करोति, यतो ज्ञानावरणीयपञ्चकदर्शनावरणीय चतुष्काऽन्तरायपश्चकसातवेदनीयोच्चैगोत्रयशकीतिरूपाणां सप्तदशसंख्याकानां प्रकृतीनां सूक्ष्मसंपरायगुणस्थानकवर्तिन एवोत्कृष्टयोग उत्कृष्टप्रदेशबन्धो भवति नान्यस्य । तथा चाऽप्रत्याख्यानावरणचतुष्कस्योत्कृष्ट प्रदेशबन्धमविरतिः सम्यग्दृष्टिरुत्कृष्टयोगे वर्तमानः करोति । प्रत्याख्यानावरणचतुष्कस्योत्कृष्टप्रदेशबन्धं देशविरतिरुत्कृष्टयोगे वर्तमानः करोति, तथा पुरुषवेदसंज्वलनक्रोधमानमायालोभरूपाणां पञ्चसंख्यानां प्रकृतीनामुत्कृष्टप्रदेशबन्धनिवृत्तिकरण गुण. स्थानके यथाक्रमं मोहनीयस्य पश्चप्रकृतीनां चतुष्प्रकृतीनां त्रिप्रकृतीनां द्वयोः प्रकृत्योरेकस्याः प्रकृतेर्वन्धक उत्कृष्ट योगे वतमानः करोति । निद्राद्विकहास्यरतिभयजुगुप्सारूपाण पटसंख्यानां प्रकृतीनामुत्कृष्टप्रदेशबन्धमुत्कृष्टयोगे वर्तमानोऽक्तिसम्यग्दृष्टिप्रभृत्यपूर्णकरणगुणस्थानकपर्यन्त. वर्ती करोति ।
इत्थं षट्त्रिंशत्प्रकृतीनामुन्कृष्टप्रदेशबन्धं सम्यग्दृष्टय एव कुवन्ति । यद्यपि शेषाणामष्टादशप्रकृतीनामुत्कृष्ट प्रदेशबन्धका मिथ्यादृष्टयो जीवास्तथापि सम्यक्त्वाऽभिमुखो मिथ्याष्टिस्तियङ् मनुष्यो वाऽष्टादशप्रकृतीनामुत्कृष्टप्रदेशबन्धं न करोति, यतस्तैजसकार्मणशरीरवर्णगन्धरसस्पर्शाऽगुरुलघूपघातनिर्माणवादरप्रत्येकरूपाणामेकादशानां प्रकृतीनामुत्कृष्टप्रदेशबन्धमपर्याप्त केन्द्रियप्रायोग्या नामकर्मणस्त्रयोविंशतिप्रकृतीघ्नन्नेव करोति तथा पर्याप्तपराघातोच्छ् वासस्थिरशुभरूपाणां पञ्चसंख्यानां प्रकृतीनामुत्कृष्टप्रदेशबन्धमपर्याप्तैकेन्द्रियप्रायोग्यनामकर्मणः पञ्चविंशतिं प्रकृतीबंध्नन्नेव करोति, तथा पञ्चेन्द्रियजातेस्त्रसस्य चोत्कृष्टप्रदेशबन्धमपर्याप्तविकलतिर्यङ्मनुष्यपञ्चेन्द्रियप्रायोग्याः पञ्चविशति प्रकृतीवघ्नन्नेव करोति । सम्यक्त्वाऽभिमुखस्तु संज्ञीपञ्चेन्द्रियो मिथ्यादृष्टिस्तियङ्मनुष्यो वा नामकर्मणो देवगतिप्रायोग्या एवाऽष्टाविंशतिसंख्याः प्रकृतीर्वघ्नाति । अतो मनुष्यस्तियं वा पूर्वोक्तानां पत्रिंशतः प्रकृतीनां तथाऽष्टादशप्रकृतीनामुत्कृष्टवन्धं न करोति । अतस्तस्य चतुष्पञ्चाशतः प्रकृतीनामनुत्कृष्टप्रदेशबन्ध एवभवति ।
सम्यक्त्वाऽभिमुखो देवः सप्तमपृथ्वीनारकवजों नारको बोत्कृष्टयोगे वर्तमानोऽनन्तानुबन्धिचतुष्कस्त्यान ित्रिमिथ्यात्वबज्रऋषभनाराचरूपाणां नवसंख्यानामुत्कृष्टप्रदेशबन्धं करोति तथानुत्कृष्टयोगे वर्तमानोऽनुत्कृष्टप्रदेशबन्धं करोति । यतो मिथ्यादृष्टेरप्यासा नवानां प्रकृतीनामुत्कृष्टप्रदेशबन्धसम्भवः, अतो मिथ्या दृष्टिदेवः सप्तमपृथ्वीनारकवजों नारको नवप्रकृतीनामुत्कृ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org