________________
गाथा ३-७ বহানাল্কা
[१० सप्तमपृथ्वीनारकवों नारको वा वैक्रियद्विकमनुष्यगतिवर्जगतित्रिकमनुष्यानुपूर्वीवर्जाऽऽ. नुपूर्वीत्रिकरूपाः प्रकृतीनं बध्नाति । तथाहि--देवः सप्तमपृथ्वीवर्जनारको वा नामकर्मणो मनुष्यगतिवर्जगतित्रिकपञ्चेन्द्रियजातिवर्जजातिचतुष्कर्वक्रियाद्वकाहारकाद्विकऽऽद्यवर्जसंहनन-- संस्थानपञ्चकमनुष्यानुपूर्वीवर्जानुपूर्वीत्रिककुखगत्यातपोद्योतजिननामस्थावरदशकरूपा अष्टात्रिंशत्संख्याकास्तथा शेषकर्मणाश्च स्त्रीनपुंसकवेदशोकाऽरत्यायुश्चतुष्काऽसातवेदनीयनीचैर्गोत्ररूपा दशसंख्याकाः प्रकृतीन बध्नाति । अतोऽष्टाचत्वारिंशत्प्रकृतीनामवन्धको भवति ।
अथ सप्तमपृथ्वीनारकः प्रथमसम्यक्त्वमुत्पादयन्त्रितरनारकवदष्टचत्वारिंशत्प्रकृतीनां बन्धं न करोति । अत्र विशेषस्त्वयम्--इतरनारका मनुष्यगतिवर्जगतित्रिकमनुष्यानुपूर्वीवर्जाऽऽनु. पूर्वोत्रिकनीचैर्गोत्ररूपा याः प्रकृतीन बध्नाति, तत्स्थाने सप्तमपृथ्वीनारकस्तिर्यग्गतिवर्जगतित्रिकतिर्यगानुपूर्वीवाऽऽनुपूर्वी त्रिकोच्चैगौत्ररूपाः प्रकृतीन बध्नाति । तथाहि-सम्यक्त्वाऽभिमुखः सप्तमपृथ्वीनारको नामकर्मणस्तियंगतिवर्जगतित्रिकपञ्चेन्द्रियवर्जजाति-चतुष्कवै क्रियद्विकाऽऽहारकद्विकप्रथमवर्जसंहननसंस्थानपञ्चककुखगतिर्यगानुपूर्वीवर्जानुपूर्वीत्रिकातपजिननामस्थावर -- दशकरूपाः सप्तत्रिंशत्संख्याः शेषकर्मणाश्च स्त्रीनपुसकवेदशीकारत्यायुश्चतुष्काऽसातवेदनीयोच्चैगोंत्रिरूपा दशसंख्याकाः प्रकृतीन बध्नाति । इत्थमयं नारकः सप्तचत्वारिंशत्प्रकृतीनामबन्धको भवति । सप्तमपृथ्वीनारक उद्योतं विकल्पेन बध्नाति, तेनोद्योतमबध्नञ्जन्तुरुद्योतेन सहाऽष्टाचत्वारिंशत्प्रकृतीनामबन्धको भवति । सक्षेपतोऽबन्धप्रकृतियन्त्रम्... जीवः
अवध्यमानप्रकृतयः मनुष्यस्तिर्यङ् वा
४९ देवः सप्तमपृथ्वीनारकयों नागको वा
४८ उद्योतं बनन् सप्तमपृथ्वीनारकः
४७ इतरः सप्तमपृथ्वीनारकः
४८ १० स्थितिबन्धः-सम्यक्त्वामिमुखो वध्यमानमूलप्रकृतीनां स्थितिमन्तःसागरोपमकोटाकोटिप्रमाणामेव बध्नाति नाऽधिकाम् , तथाऽन्तमुहर्तकाले व्यतीते स्थितिबन्धे च परिपूर्ण सत्यन्यं स्थितिबन्धं प्राक्तनस्थितिबन्धाऽपेक्षया पन्योपमसंख्येयभागन्यूनं कुर्वन्नेवमुत्तरोत्तरं प्रत्यन्तम् हृतं पूर्वाऽपेक्षया पल्योपमसंख्येयभागन्यनं करोति । ११ अनुभागवन्धः -प्रथममुपशमसम्यक्त्वमुत्पादन्नात्मा बध्यमानानामशुभानां कर्मप्रकृतीनामनुभागं द्विस्थानकं बध्नाति . तमपि प्रतिममयं पूर्वाऽपेसयाऽनन्तगुणहीनं तथा शुभानां प्रकृतीनां चतुःस्थानकमनुभागं वध्नाति, तमपि प्रतिसमयमनन्तगुणवृद्धम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org