________________
उपशमनाकरणम्
[ गाथा-१
ननु मङ्गलं ग्रन्थस्यादौ वक्तव्यमिति कथमुच्यने ? अस्य ग्रन्थस्य परमपदप्राप्तिबीजभूतस्वेन श्रेयोरूपत्वात् , श्रेयांसि बहुविघ्नानीति न्यायेनाऽत्र विघ्नसंभवेन तेषां निराकरणार्थ मङ्गलाचरणमिति चेत् , न, अस्य ग्रन्थस्यैव श्रुतज्ञानत्वेन परममङ्गलरूपत्वात् पृथग्मङ्गलाचरणं निरर्थकम् । अत्रोच्यते, ग्रन्थस्य मङ्गलरूपत्वेऽपि शिष्टाचाराऽनुरोधेन शिष्टशेमुषीमङ्गलपरिग्रहार्थ च मङ्गलोपन्यासः। तन्मङ्गालोपन्यास आदौ मध्येऽवसाने च कर्तव्यः। नन्वयुक्तो मङ्गलत्रयोपन्याम आदिमङ्गलेनैवऽभिष्टार्थसिद्धेगित, एतदसम्यक , आदिमङ्गलं शिष्यमतिमङ्गलपरिग्रहार्थ निर्विघ्नपरिसमाप्तये वा, मध्य मङ्गलाऽवगृहीतशास्त्रार्थस्थिरीकरणार्थमन्तिममङ्गलं च शिष्यप्रशिष्यपरम्परया शास्त्रस्याऽव्यवच्छेदार्थम् । उक्तश्च । ..तं मंगलमाइए मज्झे पज्जंतए य सत्थस्स पढमं सत्थत्वाविग्घपारगमणाय निद्दिढ ।। तस्सेव य थेज्जत्थं मन्झिमयं अंतिमपि तस्सेव । अव्वोच्छित्तिनिमित्तं सस्सपस्सिसाहसरस ।। अत्राऽऽद्यं मङ्गलं ग्रन्थकृता पूर्व मुक्तम् । सिद्ध सिहत्थमुवन्दिय गिद्धोयसव्वकम्ममलं । कम्मट्ठगस्स करणट्ठमुदयसंताणि वोच्छामि ॥१॥ इति । अन्तिममङ्गलं तु "जस्सवेरसासणावयवफरिसपविकसियविमलमहकिरणा। विमलेति कम्ममहले सो मे सरणं महावीरो ।।१" इति वक्ष्यते । संप्रत्युपशमनावसरे मध्यमङ्गलं चिकीर्ष राचार्य
आह.........
करणकयाकरणावि य दुविहा उवसामणस्थ बिइयाए। यकरणअणुइनाए अणुयोगधरे पणिवयामि ॥१॥ करणकृताकरणापि च द्विविधोपशमनाऽत्र द्वितीयायाः। अकरणनुदोर्णाया अनुयोगधरान् प्रणिपतामि ॥१॥ इति पदसंस्कारः
अथोपशमना, उपशम्यते उदयोदीरणानित्तिनिकाचनाकरणाऽयोग्यत्वेन व्यवस्था. प्यते कर्म यया, सोपशमना "णिवेत्त्यासश्रन्थघवन्देरना" (सिद्धहेम. ५ ३-१११) इति सूत्रेण स्त्रियाम् अत्' प्रत्ययः । अनप्रत्ययस्य स्त्रीवृत्तित्वात "आत्"(सिद्धहेम. २.४.१८) इति सूत्रेण 'आप' प्रत्ययः । तत्रैतेऽर्थाऽधिकाराः। तद्यथा-- (१) प्रथमसम्यक्त्वोपादप्ररूपणा (२)देशविरतिलाभप्ररूपणा (३) सर्वविरतिलाभप्ररूपणा (४) अनन्तानुबन्धिविसंयोजना (५) दर्शनमोहनीयमपणा (३) दर्शनमोहनीयोपशमना (७) चारित्रमोहनीयोपशमना (८) देशोपशमना (८) देशोपशमना च सप्रमेदा । तत्रेदमुपशमनाकरणं सप्रमेदं सर्वथा व्याख्यातुमशक्यम् , यतः सर्वथा मतिज्ञानावरणीयादीनां कर्मणां सर्वजघन्यानुभागोदीरकः सर्वज्ञप्रणीतशास्त्राब्धि शर्करामूर्तिमिश्चतुर्दशपूर्ववद्भिर्लोकालोकदर्शिभिश्च केवलज्ञानिमिभगवद्भिरेव व्याख्यातु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org