________________
उपशमनाया द्वैविध्यम् ]
[
शक्यत्वात् । यत्रांश आत्मनोऽशक्तिस्तत्रांशे तद्वेत्तृणामाचार्यो नमस्कारं चिकीर्षु राह... 'करणकय' त्ति | नमस्कारश्च पराऽवधिकस्वापकर्षबांधानुकूलव्यापारः । तत्रोपशमना द्विविथा - 'करणकयाकरणा' इत्यादि, करणकृताऽकरणकृता च । तत्र करणं क्रिया यथाप्रवृत्तानिवृत्तिकरणसाध्यः क्रियाविशेषस्तेन कृता करणकृता "कारकं कृता' | सिद्धहेम (३|१|६८ ) इति समासः, न करणमकरणम्, अकरणेन कृता अकरणकृता । या जन्मजरामरणलताविता तानसंभृतायां नानाविधमन संकल्पविकल्पश्रृगालादिसङ्कुलायां दुरवगाह महामोहतमोभीषणायामार्तरौद्रध्यानवात्यापरिपूरितायां मिथ्यादर्शनाऽविरतिप्रमादक पायलुण्टाकव्याप्तायां भवाटव्यां भ्रमतां संसारिणां जीवानां गिरिनदीपाषाणवृत्ततादिसंभववद् यथाप्रवृत्तादिकरणं विनाऽपि वेदनानुभवनादिभिः कारणैरुपशमनोपजायते साऽकरण कृतेत्यर्थः ।
इदं च करणकृताऽकरणकृतत्वरूपं द्वैविध्यं देशोपशमनाया एव द्रष्टव्यम्, न सर्वोपशमनायाः, तस्याः करणेभ्य एव मात्रात् उक्तश्च पञ्चसंग्रहमूलटीकायाम्... 'देशोपशमना करणकृता करणरहिता च सर्वोपशमना तु करणकृतैवेति' तस्या अकरणकृताया उपशमनायाः संप्रत्यनुयोगो व्यवच्छिन्नः, तत आचार्यः स्वयं तस्या अनुयोगमजानानस्तद्वे तृणां चतुर्दशपूर्वराणां नमस्कारमाह 'बिइयाए' इत्यादि, द्वितीयाया अकरणकृताया उपशमनाया अकरणानुदीर्णरूपनामधेयद्वययुक्ताया अनुयोगधरान् व्याख्याकुशलान् विशिष्टमतिप्रभाकलितचतुर्दशपूर्वरान् प्रणिपतामि । प्रणिपतामि' इत्यत्र प्रशब्दो वाक्कायमनसां प्रह्वीभावप्रकर्षं द्योतयति, उपहास नमस्कारं च निराकरोति । अन्यथा नमस्यं तत्सखि प्रेमघण्टारसितसोदरम् । क्रमक्रशिमनिस्सार मारम्मगुरुऽम्बरम्, इत्यादिवदुपहासनमस्कारभ्रमोऽपि स्यादिति । उपशमनाया द्वैविध्यं तथैकैकस्या नामाऽन्तरं व्याजिहीर्षु राहसव्वरस य देसरस य करगुवसमणा दुन्निसन्नि एकिका | सव्वस्स गुणपसत्था सस्स वि तासि विवरीया ||२|| सव्ववसमणा मोहस्सेव...
सर्वस्य च देशस्य च करगोपशमना द्विसंज्ञैकका । सर्वस्य गुणप्रशस्ता देशस्यापि तयो विपरीता ||२|| सर्वोपशमता मोहस्यैव
'सव्वस्स' इत्यादि सा
इति पदसंस्कार: करणकृतोपशमना द्विविधा सर्वस्य देशस्य च सर्वविषया देशविषया चेत्यर्थः "एक्किक्का" त्ति, एकैकस्या अपि 'दुसन्नि' त्ति द्वे सज्ञेद्वे द्वे नामधेये तद्यथा - 'सव्वस्स' सर्वस्य सर्वोपशमना प्रशस्तोपशमना चेति, तथा 'देशस्य' देशोपशमनायास्ताभ्यां पूर्वोक्तायां विपरिते नामधेयेऽगुणोपशमनाऽप्रशस्तोपशमना च ।
Jain Education International
उपशमनाकरणम्
For Private & Personal Use Only
www.jainelibrary.org