________________
२१८ ] उपशमनाकरणम
[ गाथा ६. ननु गुणश्रेणिशिरःपर्यन्तं निक्षेप उक्तः, किन्तु गुणश्रेण्यायामो नोक्त इति कस्यचिच्छङ्का भवेत् , तत्परिहारार्थमाह
वेइज्जमाणसंजलणद्धा अहिगा उ मोहगुणसेढी । तुल्ला य जयारूढो अतो य सेसेहि से तुल्ला ॥६०॥ वेद्यमानसंज्वलनाद्धाया अधिका तु मोहगुणश्रेणिः ।
तुल्या च येनारूढोऽतश्च शेषाभिः तस्य तुल्या ॥६०॥ इति पदसंस्कारः "मोहे गुणसेढी"इत्यादि, प्रतिपततः सूक्ष्मसंपरायप्रथमसमयेऽप्रत्याख्यानप्रत्याख्यानावरणसंज्वलनलोममोहनीयस्य गुणश्रेणिः सूक्ष्मसंपरायकालादधिका,सा च कालमाश्रित्य तुल्या। इदमुक्तं भवति-सूक्ष्मसंपरायप्रथमसमये यावान् गुणश्रेण्यायामः,तद्वितीयसमयेऽपि तावन्मात्रः एवं वेदनत समयेषु क्षीणेषु सत्सु गुणश्रेण्यायाम उपयु परिवर्धते, शेषकर्मणां मोहनीयायुर्वर्जानां ज्ञानावरणीयादीनां च गुणश्रेण्यायामोऽवरोहकसूक्ष्मसंपरायाऽनिवृत्तिकरणाऽपूर्वकरण गुणस्थानकत्रयकालादधिको भवति, स च गलिताऽवशेषमात्र उदयेन क्षीणेषु समयेषु सत्सु न्यूनो न्युनो भवतीत्यर्थः, उपशान्तकषाये तु शेषकर्मणां गुणश्रेणिरवस्थिताऽऽसीत्, इदानीं तु गलिताऽवशेषमात्री भवति । उक्तं च कषायप्राभतचूणौँ "सेसाणमाउषजाणं कम्माणं गुणसेढीणि. क्खेवो अणियहिकरणाद्धादो अपुव्वकरणडादो च विसेसाहिओ सेसे सेसे च निक्खेषो । तिविहस्स लोहस्स तत्तियो चेव णिक्खेवो।" इति । एवमग्रेऽपि यदा माया वेदिष्यते, तदा मायाया गुणश्रेणिस्तद्वेदनकालतः किश्चिदधिकायामाऽवस्थिता करिष्यते, शेषकर्मणां च प्रागिव वक्तव्या । 'जया' त्ति, प्राकृतत्वात् स्त्रीनिर्देशो येन संज्वलनेनोपशमश्रेणिं प्रतिपन्नस्तमुदयेन प्राप्तः संस्ततः प्रभृति तस्य क्रोधादिकषायस्य गुणश्रेणि शेषकर्मसत्वगुण. श्रेणिभिस्सह तुल्यामारभते, तदानीं यावत्यायाम शेषकर्मणां गुणश्रेणिं करोति, तावत्येवायामे तत्कपायस्य गुणश्रेणि विरचयति तां च पुनर्गलिताऽवशेषमात्रीं करोति, यथा कश्चित्क्रोधोदयेनोपशमश्रेणिं प्रतिपन्नस्ततः श्रेणितः प्रतिपतन् यदा क्रोधमुदयेन प्राप्तस्ततः प्रभृति तस्य कषायस्य गुणश्रणिः शेषकर्मभिस्तुल्या भवति । एवं मानमाययोरपि वाच्यम् । संज्वलनलोभेन पुनरूपशमश्रेणिमारूढस्य प्रतिपातकाले सूक्ष्मसंपरायप्रथमसमयादेवाऽऽरभ्य लोभस्य गुणश्रेणिः शेषकर्मणां गुणश्रेणिभिस्समाना प्रवर्तते, साऽपि च गलिताऽवशेषा । उक्तं च कर्मप्रकृतिचूर्णी"वेतिजमाणसंजलणडाए अहिगा उ मोहगुणसेढी तुल्ला य जयारूढो त्ति वेतिज्जमाणसंजलणडाए अहिगा मोहणिजगुणसेढीकालं पडुच्च, तुल्ला य 'जयारूढो' त्ति-जाए संजलणाए सेहिं पडिवन्नो तातो चेव तं कम्म पत्तस्स सेसमेहि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org