________________
प्रतिपाते दलनिक्षेपः। चारित्रमोहनीयोपशमनाधिकारः
[ २१७ अनुदयवतीनां प्रकृतीनां निक्षेप विधिं व्याजिहीपुरभिधत्ते
वेइज्जतीणेवं इयरासिं थालिगाइ बाहिरयो । ण हि संकमोणुपुरि छावलिगोदीरणा उप्पिं ॥५॥
वेद्यपानानामेवमित रासामावलिकाया. बहिः ।
न हि संक्रम प्रानुपूा , षडावलिकापर्युदोरणा ।। ५६ ॥ इति पदसंस्कारः 'वेद्यमानाम् वेद्यमानां प्रकृतीनाम् 'एव' उक्तप्रकारेणदलनिक्षेपविधिरुक्तः। सम्प्रति 'इतरासाम्'शेपाणामवेद्यमानानामप्रत्याख्यानावरणादीनां प्रकृतीनां दलिकानि द्वितीयस्थितितो गृहीत्वोदयावलिकाया उपरि दलिकनिक्षेपो भवति, तासामुदयाऽभावेनोदयावलिकायां निक्षेपमकृत्वा तदुपरितनेषु निषेकेषु दलं निक्षिपतीत्यर्थः, तद्यथा-उदयावलिकोपरितनप्रथमनिषेके दलिकं स्तोकं प्रक्षिपति, ततोऽनन्तरनिषेकेऽसंख्येयगुणम् , एवं श्रेण्या तावन्निक्षिप्तव्यम्, यावद्गुणोणशिरस्ततोऽसंख्येयगुणहीनम् , ततः परं विशेषहीनक्रमेण दलं निक्षिप्यते । 'न हि'इत्यादि, 'हि' शब्दोऽवधारणे किमवधार्यत इति चेद् ! उच्यते-यः प्रागुपशमश्रेण्यारोहे मोहनीयस्याऽन्त. रकरणे कृतेऽनुपूव्यव सङ्क्रम उक्तः, प इह न, किन्त्वनानुपूाऽपि । ननु सूक्ष्मसंपरायगुणस्थानके मोहनीयस्याऽनानुपूर्त्या सङ्गमः कस्यां प्रकृती संभवेत् , बन्धाऽभावेन पतद्ग्रहताऽऽसिद्धेरिति चेद् ! उच्यते-अनानुपूर्वीस क्रमस्य स्वरूपयोग्यतया प्रतिपादितत्वमस्ति । वस्तुतो यदा माया भन्त्स्यते, तदेव लोभस्य सक्रमोऽनानुपूर्व्या भविष्यति कषायमाभृतचूर्णी तु संज्वलनलोभे बध्यमाने मोहनीयस्याऽनानुपूा सङ्क्रम उक्तः, तथा च तद्ग्रन्थः "अणियही पहुडी मोहणीयस्स आणाणपुचीसंकमो लोभस्स वि संकमो।" इति । सोऽपि स्वरूपयोग्यतयैव भवितव्यः, अन्यथा तदानीमप्रत्याख्यानावरणप्रत्याख्यानावरणयोः संज्वलनलोभे यः सङ्क्रमो भवति, सोऽपि आनुपूयेव नाऽनानुपूा । तदानीं च संज्वलनलोभस्य त्वन्यत्र सङ्क्रमो न भवति, अन्यासां प्रकृतीनां बन्धाऽभावेन पतद्ग्रहताऽभावात् ।
___ तथाऽन्तरकरणे कृते कस्यचित्कर्मणो बन्धाऽनन्तरं षण्णामावलिकानामपर्यु दीरणा भवतीति यत्पूर्वमुक्तम् , तदपीह न भवति । किन्तु बन्धावलिकायां व्यतिक्रान्तायामुदीरणा भवितुमर्हति । उक्तं च कर्मप्रकृतिची-"घडं छण्हं आवलिगाणं परओ उदीरिज्जति ति तं पि नस्थि बंधावलियाए गयाते उदिरिजति" इति । एवं कषायप्राभूतचूर्णावपि "सव्वस्स पडिवदमाणगस्स छमु आवलियासु गदासु उदीरणा इदि स्थि णियमा आवलियादिक तमुदिरिजाति ।" इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org