________________
२१६ ]
[ गाथा ५७
वीर "त्ति, जेणेव विहिणा आरूढो तेणेव विहिणा पच्छाणुपुन्नीए परिवडति पमत्तसजतो" इति । भावार्थः पुनरयम् - उपशान्तमोहगुणस्थानकतः पतन् प्रथमं सूक्ष्मसंपरायगुणस्थानकं गच्छति, तदनन्तरमनिवृत्तिगुणस्थानकं लभते, ततश्चाऽपूर्वकरणगुणस्थानकमश्नुते, तदन्वप्रमत्त गुणस्थानकं प्रविशति, ततः पश्चात्प्रमत्तगुणस्थानकम् ।
एवं सामान्येनाऽभिधाय विशेषेणाऽभिधित्सुराह-
उपशमनाक रणम
Jain Education International
उक्कड़ित्ता विईिहि उदयाइस खिवइ दव्वं । सेदीए विसेसूणं श्रावलिउपि संखगुणं ॥ ५८ ॥
अपकृष्य द्वितीयस्थितेरुदयादिषु क्षिपति द्रव्यम् 1 श्रेण्या बिशेषोनमावलिको पर्यसंख्ये यगुणम्
उपशान्तमोहगुणस्थानकात्प्रतिपतन्सूक्ष्म संप रायगुणस्थानकं गच्छति । सूक्ष्मसंपरायगुणस्थानकप्रथमसमय एव त्रयो लोभा उपशान्ता भवन्ति सूक्ष्मलोभं वेदयितु ं द्वितीयस्थितेः सकाशकिट्टीः समाकृष्योदयसमयात्सूक्ष्मलोभवेदकाऽद्धातः किञ्चिदधिके काले प्रथमस्थिति करोति । तत्र दलनिक्षेपक्रमश्चाऽयम् 'उदयादिषु' उदयममयप्रभृतिषु स्थितिषु श्रेण्या विशेषोनं विशेषोनं दलं प्रश्चिपति । तद्यथा - उदयसमये प्रभूतम्, ततो द्वितीयसमये विशेषहीनम्, ततोऽपि तृतीयसमये विशेषहीनम्, एवं तावद्वक्तव्यम्, यावदुदयावलिकायाश्रमसमय उदयावलिकाया उपर्यसंख्येयगुणम् । तद्यथा - उदयावलिकाया उपरि प्रथमसमये प्राक्तनाऽनन्तरसमय दलिक निक्षेपाऽपेक्षयाऽ संख्येयगुणं दलम्, ततोऽपि द्वितीयादिसमयेषु यथोत्तरमसंख्येयगुणं वाच्यम्, यावद्गुण श्रेणिशिरः, गुणश्रेणिश्च सूक्ष्मलोभवेदकाऽद्धातः किश्चिदधिककालप्रमाणा भवति । गुणश्रेणिशिरस उपरि प्रथमनिषकेऽसंख्यगुणहीनम्, ततः विशेषहीनं विशेषहीनं दलं प्रक्षिपति उक्तं च कर्मप्रकृतिचूर्णौ - "परिवडमाणो लोभाइणोवर्कमे वेयमाणो तेसि बितिपठितितो दलियं घेतण पढमहिती करेति, 'उदयादिसु' त्ति उदयादिसु हिन्ति निक्खिषड् । 'सेढीए विसेसूणं' ति-पढमसमये बहुगं वितिय समते विसेस होणं जाव आवलिगा, आवलिंगाते परतो गुणसेढीकमेण णिक्खिवद्द | आवलिगा उवरिं असरखेज्जगुणाए सेटीए जाव गुणसेढीसोसगमिति परओ बिसेसहीणा चेव द्विति ॥ " इति । कषायप्राभृतचूर्णिकारैस्तदुदय समयादुत्तरोत्तर निषेके संख्येयगुण का रेणदलिक निक्षेप उक्तः । तथा च तद्ग्रन्थ:-"पढमसमयसुहृम संपराइएण तिविह लोभमोकड्डियूण संजलणस्स उदयादिगुणसेढी कदा |" इति ।
||१८|| इति पदसंस्कारः
For Private & Personal Use Only
"
www.jainelibrary.org