SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ उप. मोहप्रतिपात: चारित्रमोहनीयोपशमनाधिकारः [ २१५ पच्छाणुपुब्विगाए परिवडइ पमत्तविरतो त्ति ॥५७॥ पश्चानुपूा. प्रतिपतति यावत्) प्रमत्तविरतिमिति ॥५४॥ इति पदसंस्कारः एको जन्तुरूपशान्तमोहगुणस्थानकस्य प्रथमसमयान्प्रभति तच्चरमसमयपर्यन्तं विद्यमानेषु समयेवायुषि पूणे मृत्वोपशान्तमोहगुणस्थानकतश्च्युत्वा देवः सनविरतसम्यग्दृष्टिगुणस्थानक गच्छति, अन्यो जन्तुः पुनरुपशान्तमोहगुणस्थानकस्याऽन्तमुहूर्ते काले व्यतीते ततः परिच्युस्याऽधस्तनगुणस्थानकानि क्रमशः स्पृशतीति प्रतिपातो द्विविधो भवति (१) भवक्षयेण (२) अद्धाक्षयेण च । तत्राऽऽद्यो भवक्षयानिमित्तकः प्रतिपातो विविच्यते । उपशान्तमोहगुणस्थानककाले प्रथमसमयादारभ्य चरमसमयपर्यन्तमायुषि क्षीण उपशान्तमोहकाले मृत्वा देवगता अविरतसम्यक्त्वगुणस्थानके प्रतिपतति, तम्य प्रथमसमय एच बन्धनोदीरणासङ्क्रमणनिधत्त्यादीनि सर्वाण्यपि करणानि युगपत्प्रवर्तन्ते, अविरतिसम्यग्दृष्टित्वभावादुपशान्तप्रकृतीनामुपशान्तत्वं प्रणश्यतीत्यर्थः । प्रथमममय एवं कमदलं समाकृष्याऽन्त करणं पूरयति ।। अन्तरकरणे दलप्रक्षेपविधिश्वाऽयम्-प्रथमसमये यानि कर्माण्युदयप्राप्तानि तेषां दलिकान्युदयसमयादारभ्योदयावलिकायां सदुपरि च रचयति । यानि कर्माण्युदयाप्राप्तानि तेषां दलिकान्युदयावलिकाबहिर्विशेषहीनक्रमेण गोपुच्छसंस्थितानि विरचयत्यन्तरकरणं च *दलिकैः । किमुक्तं भवति-विशेषहीनक्रमेणोदयप्राप्तानामप्रत्याख्यानप्रत्याख्यानसंज्वलनक्रोधमानमायालोभानामन्यतमस्य कषायस्य पुरुषवेदहास्यरतीनामुदयवतोयजुगुप्सयोयथासंभवं दलिकमुदयः समयात्प्रक्षिप्रति. उदयाऽप्राप्तानां नपुसकवेदादीनां शेषमोहनीयप्रकृतीनां दलमुदयावल्युपरितन. प्रथममम माद्विशेषहीनक्रमेण निशिपति । अथाऽद्धाक्षयहेतुकः प्रतिपातो विवर्ण्यते-यस्तूपशान्तमोहगुण स्थानकस्याऽन्तमुहुर्ते काले समाप्त आयुषि सति प्रतिपतति, स पश्चादानुपूर्त्या येन कमेणाऽऽरूढस्तेनैव क्रमेण प्रमत्तगुणस्थानकं यावत्प्रतिपतति । उक्तं च कर्मप्रकृतिचुरें-"जो उवसमडाखएणं परिपउति तस्स विभासा पच्छाणपुब्विगए परिवडति पमत्त टिप्पणी ★ लब्धिसारेऽन्तरपूर्णेऽयं दर्शितः- भवक्षयादुपशान्तकषायगुणस्थानकात्प्रतिपतितदेवाऽसंयतः प्रथमसमय उदयवतामप्रत्याख्यानप्रत्याख्यानसंज्वलनक्रोधमानमायालोभानामन्यतमस्य कषायस्य पुवेदहास्यरतीनों भयजुगुप्सयोयथासंभवमन्यतरस्य च द्रव्यं स....इदं पुनरसंख्यातलोकेन खण्डयित्वैकमागमुदयावल्यां दत्वा स तद्बहुभागेषूदयावलिबाह्यप्रथमसमयादारभ्याऽन्तरायामे द्वितीयस्थिती च दिवड्वगुणहाणि भजिद इत्यादिविधानेन विशेषहीनक्रमेण ददाति, उदयरहितानां नपुसकवेदादीनां मोहप्रकृतीनां द्रव्यमपकृष्योदयावलिबाह्यनिषेकेष्वन्तरायामे द्वितीयस्थितौ च पूर्वोक्त विधानेन विशेषहोन क्रमेण प्रतिनिषेकं ददाति । अनेन विधानेन चारित्रमोहस्याऽन्तरं पूरयतीत्यर्थः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001832
Book TitleKarmaprakrutigatmaupashamanakaranam
Original Sutra AuthorShivsharmsuri
AuthorGunratnasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages332
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy