________________
उपशमनाकरणम
१६४ ]
[ गाथा-४८ वोच्छिण्णा" इत्युभयोः परस्परं विरोधः स्यादिति चेत् ? उच्यते, यस्मिन्समये संज्वलनक्रोधस्यबन्धोदयोदीरणा व्यवच्छिद्यन्ते, तस्मिन्न समये द्वितीयस्थितितो मानस्य दलिकं गृहीत्वा तत्तत्प्रथमस्थितिं करोति वेदयति च । उक्तं च वर्मप्रकृतिचूौँ-"जाहे चेव कोहस्स बंधोउदो उदीरणा च वोच्छन्नाणि, ताहे चेव माणस्स हितिबीयिहितितो दलियं घेत्तण करोति पढमसमयवेयगो पढमहितिंकरमाणो" इत्यादि संज्वलनमानस्य वेद्यमात्वात् संज्वलनक्रोधस्योदयसमयगतदलिकं संज्वलनम ने स्तिबुकसङ्क्रमेण सङ्क्रान्तं भवति, अत एव समयोनाऽऽवलिकागतनिषेकेषु स्वस्वरूपेण तदलिकमवतिष्ठते । एकनिषेकगतसंक्रान्तसंज्वलनक्रोधदलिकस्य मानत्वेन विवक्षामनाश्रित्य कर्म प्रकृतिचूर्णिकारैरुक्तम, तद्विवक्षा त्याश्रित्य कषायामाभृतर्णिकारैः समयोनावलिकाशेषे बन्धोदयोदीरणा व्यवन्छिद्यन्त इत्युक्तम्, अतो न कश्चित्पदार्थभेदः, विवक्षाभेदस्य संभवात् । तथा च कर्मप्रकृतिचूर्णी प्रत्यावलिकाया विच्छेदकाले समयोनावलिकाद्वयेन संज्वलनक्रोधस्य बद्धदलिकमनुपशान्तं तिष्ठतीत्युक्तम् , कषायप्राभृतचूर्णिकाराणां तु द्विसमयोनावलिकाद्विकेन संज्वलनकोधस्य नूतनबद्धपलिकमनुपशान्तं तिष्ठतीत्यभिप्रायः, तथा च तद्ग्रन्थः-पडिआवलिया उदयावलियं पविसमणा पविट्ठा । ताधे चेव कोहसंजलणे दो आवलियबंधे दुसमयूणे मोत्तण सेसा तिविहा कोधपदेसा उवसामिजमाणा उवसंता" इति । अत्राऽपि पूर्ववद्विवक्षाभेदोऽस्ति, न पदार्थभेदः । तद्यथा-प्रन्यावलिकायाः प्रथमसमये प्रवृत्तोपशमनक्रियातः परं संज्वलनक्रोधस्य द्विसमयोनद्वयावलिकाबद्धदलिकमनुपशान्तं तिष्ठति । तस्मिन्समये प्रवृत्तोपशमनक्रियाया विवक्षामना. श्रित्य समयोनावलिकाद्विकेनबद्धं दलिकमनुपशान्तं तिष्ठतीत्युच्यते। संज्वलनमानोदये वर्तमानस्सन् संज्वलनक्रोधस्य प्रथमस्थितेः शेषावलिकां संज्वलनमाने स्तिवुकसङ्क्रमेण सङ्क्रमय्य वेदयति तथा च ममयोनावलिकाद्विकेन बद्धदलिकमपि पुरुषवेदोक्तप्रकारेण तावता कालेनोपशमयति सङ्क्रमय त च, तथाऽप्रत्याख्यानावरणप्रत्याख्यानावरणसंज्वलनमानोपशमनायाः प्रारम्भं करोति ।
'कमेण इत्यादि, अनेनैव क्रमेण शेषानपि कषायान त्रिविधान् त्रिप्रकारान् मानमायालो. मरूपान, पुनः कथं भूतान् ? हत्याह- त्रिविधान् प्रत्येक त्रिप्रकारान् । तथाहि- अप्रत्याख्यानावरणप्रत्याख्यानावरणसंज्वलनभेदात् त्रिविधो मानः, एवं मायालोभावपि, तानुपशमयति । तत्र संज्वलनोपशमना पुरुषवेदसमाऽवसेया, अप्रत्याख्यानावरण प्रत्याख्यानावरणमानादीनां चोपश
कुद प्रत्थ उच्छिद्रमावलियाए समयूणत्तमिदि णासंकणिज्जं, तम्मि चेव समये उदयवोच्छेदणवसेणपढमणिसेगट्टिदिए माणसंजलणोदयम्मि स्थिक्कसकमेण संकमनाए तिस्से तहा भावोवल मादो ( जयधबला पृष्ठ१८५३)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org