SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ 5 संज्व मानोपशमना ] मनापणोपाय समाना, अप्रत्याख्यान वरणप्रत्याख्यानावरणक्रोधसमानावा, नवरं संज्वलनानां प्रथमस्थितावेकावलिका पुरुषवेदाऽपेक्षयाऽवशिष्टा द्रष्टव्या । तथाहि पुरुषवेदस्य प्रथमस्थितिः पट्सु नोकषायेषु सर्वात्मना शान्तेष्वेकमयो भवति स्म तेषूपशान्तेषु पुनः पुरुषवेदस्य प्रथमस्थितिर्न तिष्ठति । अत्राऽनुपशान्ताऽप्रत्याख्यानावरणप्रत्याख्यानावरणमानादिषु पुनरुपशान्तेषु संज्वलन मानादीनां प्रथम स्थितिरेकावलिका प्रमाणाऽवशिष्यत इतीदमतिसंक्षेपेण प्रोक्तमित्यतः विस्तरतः प्रदर्श्यते er मोहोपशमनाधिकारः संज्वलनमा नोपशमना - ( १ ) संज्वलन क्रोधस्य बन्धोदयोदीरणा व्यवच्छेदसमय एव संज्वलननमानस्य द्वितीयस्थितेः सकाशाद्दलिकं समाकृष्य प्रथमस्थितिं करोति वेदयति च । अत्रैकस्मिन्नेव समये द्वितीय स्थितितो दलिकं समाकृष्य प्रथमस्थितेः रचनं निषेकस्य च वेदनं युगपत्प्रवर्तते । तत्र दलरचना चेत्थम् - प्रथमस्थितेरुदयसमये स्तोकं दलं रचयति, ततो द्वितीयसमयेऽसंख्येयगुणं प्रक्षिपति, ततो भूयोऽसंख्येयगुणं तृतीयममये प्रक्षिपति, एवं तावद्वाच्यम् यावत्प्रथमस्थितेश्वरमसमयः । उक्तं च कर्मप्रकृतिचूर्णो जाहे चेव कोहरस बंधो उदओ उदीरणा य वोच्छिन्नाणि ताहे चेव माणस्स पढमट्टितिं बीयट्टित्तितो दलियं घेत्तूण करेति, पढम. समये वेगो पढमट्ठितिं करेमाणो पढमसमते उदतं पदेसग्गं थोवं देति, से काले असंखेज गुणाए सेटीए देति, जाव पढमट्ठितिए चरमसमतो ति ।" इति । यदोपरितनस्थितितो दलमाकृष्य प्रथमस्थितिं रचयति, तदा द्वितीयस्थितावपि दलप्रक्षेपो भवति, प्रथमस्थितेवरमसमये निक्षिप्यमाणदलिकतो द्वितीयस्थितेः प्रथमनिषेकेऽसंख्येयगुणहीनं दलं निक्षिपति, तदुपरितननिषेषु विशेषहीनक्रमेण प्रतिपतीति कपायाभूत चूर्णिकारः । अक्षराणि त्वेवम् फ्र Jain Education International १६५ க - द्वितीयस्थितेः प्रथम निषेकेऽसंख्ये यगुणहीन निक्षेप इदं कारणं लब्धिसार उक्तम् — सत्तागत दलिकमपकृष्टभागहारेण विभज्य तदेकभागं भूयः पल्योपमाऽसंख्यात भागेन भक्त्वैकमागमुदयसमयादारभ्य प्रथम स्थितेश्वरमसमयपर्यन्तं प्रक्षिप्य बहुभागान् द्वितीयस्थितेराद्यनिषेकात्प्रभृति तावत्प्रक्षिपति यावदतिस्थापना प्राप्ता भवति; एवं प्रथम स्थितेश्वर मनिषेके निक्षिप्यमाणदलिकतोऽसंख्येयगुहीनं दलं द्वितीय स्थितेः प्रथमनिषेके निक्षिप्यते कुत: ? इति चेद् ? उच्यते, प्रथमस्थितेश्वरम निषेक उत्कीर्णदलिकसत्कपल्योपमाऽसंख्येयतमभागप्रमाणदलिकम संख्येयसमय प्रबद्धप्रमाणं निक्षिप्यते, द्वितीयस्थितेः प्रथमनिषेकेतूत्कीर्णदलिक सत्काऽसंख्यातबहुभागगतदलिकं द्वयर्धगुणहानिभागहारेण विभज्य तदेकभागमेकसमयप्रबद्धाऽसंख्येय भागमात्रं निक्षिपतीति प्रथम स्थितेश्वरम निषेके निक्षिप्यमाणदलिकतोऽसंख्येयगुणहीनं दलं द्वितीयस्थितेः प्रथमनिषेके निक्षिप्यते द्वितीय स्थितेः प्रथमनिषकात्परं विशेषहीन क्रमेण तावत्प्रक्षिपति यावदतिस्थापना प्राप्ता भवति मानस्य प्रथमस्थिति कुर्वन् प्रथमसमय उपर्युक्तक्रमेण बलिकं निक्षिपति, एवं द्वितीयादिसमयेष्वपि निक्षेपक्रमो वाच्यः, तदानीं च कर्मप्रकृतिचूण कषायप्राभृतिचूणच निक्षपेक्रमो नोक्तः । लब्धिसाराऽक्षराणि त्वेवम् --- For Private & Personal Use Only www.jainelibrary.org
SR No.001832
Book TitleKarmaprakrutigatmaupashamanakaranam
Original Sutra AuthorShivsharmsuri
AuthorGunratnasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages332
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy