SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ हास्यादिपुरुषवेदोपशमना ] चारित्र मोहोपशमनाधिकारः [ १६७ मलयगिरीयटीका- "ततः पुरुषवे दोपशान्तः तदानीं च संज्वलनानां द्वात्रिंशत्समा द्वात्रिंशद्वर्षप्रमाणः स्थितिबन्धः । इति । पुरुषवेदस्य प्रथमस्थिता आवलिकाद्विके शेषे प्रागुक्तस्वरुप आगालो व्यवच्छिद्यते, इतः प्रभृति द्वितीयस्थितितः पुरुषवेदस्य दलिकं प्रथमस्थितौ नाऽऽगच्छति, उदीरणा तु भवत्येव । ५ आगालव्यवच्छेदसमय एव हास्पट्कस्य दलिकं पुरुषवेदे न संक्रमयति, किन्तु संज्वलनेषु । किमुक्तं भवति ? आवलिकाद्वये शेषे पुरुषवेदस्य सङ्क्रमाधारतालक्षणा पतद्ग्रहता व्यवच्छिद्यत इति कृत्वा ततः प्रभृति नोकषायमत्कं दलिकं पुरुषवेदे न संक्रमयति, किन्तु संज्वलनक्रोधादिषु । उक्तं च कर्मप्रकृतिचूर्णौ ' पुरिसवेधस्स पढमद्वितिते दुयावलियसेसाए आगालो वोच्छिन्नो अणंतरावलिगात्ती उदीरणा एन्ति ताहे उन्हें नोकसायाणं संछोभो स्थि पुरुषवेदे संजलणेसु संभंति । " इति । अत्र केचित्परिशङ्कन्ते - ननु प्रस्तुत आवलिकाद्वये शेषे आगाल विच्छेदसमये हास्यष्ट्कसत्कं दलिकं पुरुषवेदे न सङ्क्रमयतीत्युच्यते सङ्क्रमाऽधिकारे तु पुरुषवेदस्य प्रथमस्थिति - सत्कयोः समयोनयोर्द्वयोरावलिकयोः सन्योः पुरुषवेद: पतद्ग्रहो न भवतीत्युक्तम्, अतो मिथो विरोध उत्तिष्ठति । अत्र परिहार उच्यते न कश्चिद्विरोधो विवक्षाभेदमात्रस्य सत्वात् तथाहि अत्राssaलिकाद्विके शेषे आगालस्य व्यवच्छेद उक्तः, तस्याऽयमाशय:- द्विचरमाssवलिकायाः प्रथमसमये हास्यषट्कं पुरुषवेदे सङ्क्रमयति, ततः परस्मिन्समये हास्यषट्कं पुरुषवेदे न सङ्क्रमयतीति सङ्क्रमाऽधिकारे तु हास्यपटुकस्य सङ्क्रमाऽभावमाश्रित्य पतद्ग्रहविच्छेद उक्तः, अतः समयISS लिकाद्विके शेषे नष्टता नाऽनुपपन्ना विवक्षा मेदस्य सत्त्वात् । अथवा निश्चयनयेन व्यवच्छिद्यमानो व्यवच्छिन्न उच्यते, व्यवहारनयेन तु समयोनावलिकाद्वये शेष आगालोव्यवछिद्यत उच्यते । तदेवमिह निश्चयनयेन संक्रमाधिकारे तु व्यवहारनयेन प्रोक्तत्वेन समयोनावलिकाद्वये पतद्ग्रहाभावे व्यवच्छिन्नो भवति तच्चं तु केवलिनो विदन्ति । ततः पुरुषवेदस्य प्रथमस्थितावावलिकायां शेषायामुदीरणा व्यवच्छिन्ना भवति । पुरूषवेदस्य प्रथम स्थितेश्वरम निषेकवेदिते एते पदार्थाः प्रवर्तन्ते । तद्यथा--- (१) हास्यषट्कं नपुंसकव वेदोक्तप्रकारेण सर्वथोपशान्तम् । (२) पुरुषवेदस्य चन्धविच्छेदः । (३) तदुदयविच्छेदश्व (४) समयोनाऽऽवलिकाद्विकेन बद्धदलिकं विना पुरुषवेदस्य दलं सर्वथोपशान्तम् । (५) क्रोध त्रिकोपशमनाप्रारम्भः । टिप्पणी एत्तो पाए पुरुषवेदरस गुणसेढि पि नारिथ ।" इति जयघवला । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001832
Book TitleKarmaprakrutigatmaupashamanakaranam
Original Sutra AuthorShivsharmsuri
AuthorGunratnasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages332
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy