________________
१८६ ] उपशमनाकरणम
[ गाथा १७ प्राभूतचूर्णौ तु तदानीं संज्वलनचतुष्कस्य स्थितिबन्धो द्वात्रिंशद्वर्षप्रमाण उक्तः । तदनन्तरसमयेऽवेदकाद्धायाः प्रथमसमय इत्यर्थः,संज्वलनक्रोधादीनां स्थितिबन्धम्न्वन्तमुहर्तन्युनद्वात्रिंशद्वर्षप्रमाणः कर्मप्रकृतिचूर्णावप्युक्तः, तद्यथा-"पढमसमय अवेयगस्स संजलणोणं हितिबंधो बत्तोस वरिसाणि अंतोमुहत्तणाणि,सेसाणं णाणावरणीयाणं संखेज्जाणि वाससहस्साणि हितिबंधो"इति । कषायप्राभूतचूर्णावप्यवेदकस्य प्रथमसमये संज्वलन चतुष्कस्य स्थितिबन्धोऽन्तमुहुर्तानो द्वात्रिंशद्वार्षिक उक्तः,नथा च तद्ग्रन्थः-"पढमसमयअवेदस्स संजलणाणं हिदि. बंधो बत्तीसवस्साणि अंतोमुहूत्तणाणि ।" इति । अवेदकप्रथम समये संज्वलनचतुष्कस्य स्थितिबन्धस्याऽन्तमुहुर्तन्यूनद्वात्रिंशद्वर्षप्रमाणत्वात्, तत्पूर्वसमये पुरुषवेदस्य बन्धविच्छेदसमय इति यावत् संज्वलनचतुष्कस्य द्वात्रिंशद्वार्षिकस्थितिबन्धः संभवत्येव । कर्मप्रकृतिचूणों तु संज्वलनचतुष्कस्य स्थितिबन्धः संख्येयानि वर्षसहस्राण्युक्तः,तदानीं शेषकर्मणां स्थितिबन्धो न भावितः, तेनेयंसंभावनाऽस्माभिमपस्थीयते - संजलणाणंबंधो" इति शब्दात्परं बत्तोस वस्ताणि सेसाणं कम्माणं कम्माण" इत्येतावन्तः शब्दा अशुद्धिवशाल ताः संभवन्ति । अयं माव:पुरुषवेदस्य बन्धविच्छेदसमये शेषकर्मणां मंख्यातवार्षिकः संज्वलनचतुष्कस्य च स्थितिबन्धो द्वात्रिंशद्वर्षप्रमाणो घटते । यद्वापुरुषवेदस्य प्रथमस्थिति चरमसमये संख्येयवापिका स्थिति बद्ध्वाऽनन्तरसमये पूर्वतः संख्यातगुणहीन आरब्धः स्थितिबन्धोऽन्तमु हुतोनद्वात्रिंशद्वर्षप्रमाणो वाच्य इति गणितशास्त्राऽपेक्षया तूमयमप्यविरूद्धम् । कर्मप्रकृतेरुमयटीकयोः पुरुषवेदस्य बन्धविच्छेदममये संज्वलनचतुष्कम्य बन्धः संख्येयसहस्रवार्षिक उक्तः । तथा पुरुषवेदे सर्वथोपशान्तेऽर्थादवेदकस्य द्वितीयावलिकाया द्विचरमसमये संज्वलन चतुष्कम्याऽन्तमुहूर्तानद्वात्रिंशद्वर्षप्रमाण :, स्थितिबन्ध उक्तः, तथा चाऽत्र मलयगिरिटीका- 'नतः पुरुषवेद उपशान्तः तदानीं च संज्वलनानां द्वात्रिंशद्वर्षप्रमाणोऽन्तहोंनः स्थितिबन्धो भवति ।" इति । तथैवोपाध्यायप्रवरैरप्युक्तम्।
पञ्चसंग्रहेऽवेदकस्य द्वितीयाऽऽवलिकाया द्विचामसमये संज्वलनचतुष्कस्य द्वात्रिंशद्वर्षप्रमाणः स्थितिबन्ध उक्तः, न त्वन्तम होनद्व त्रिंशद्वर्षप्रमाणः । अक्षगणि न्वेवम् -
"ताव कालेण चिय परिस उवसामए अवेदो सो बंधो बत्तीसमा संजलणियराणउ सहस्सा । मूलटीका “समरोनद्रयावलिकाकालेन यदद्धं दलं तत्तावन्मात्रेण काले. नावेदको भूवोपशमयति । पुरुषवेदो यदोपशान्तस्तदा संज्वलनानां द्वात्रिंशद्वार्षिको बन्धः,"इति ।
तट्टीका-.... तस्य पुवेदोपशमनकालस्य सवेदानिवृत्तिकरणस्प चरमसमये षोडशवर्षमात्रः पुवेद. स्थितिबन्ध संज्वलनचतुष्टस्य स्थितिबन्धो द्वात्रिंशद्वर्षप्रमितः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org