SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ पुरुषवेवहास्याद्युपशमना ] चारित्रमोहोपशमनाधिकारः । १८५ शान्तं प्राप्यत इति वाच्यम्, यतः पुरुषवेदोदयस्य समयोनाऽऽवलिद्वयशेषे पुरुषवेदस्य पतद्ग्रहताऽपगच्छति, ततः प्रभृत्यौपशमिकसम्यग्दृष्टेः संज्वलनचतुष्केऽप्रत्याख्यानप्रत्याख्यानावरणसंज्वलनक्रोधत्रिकमप्रत्याख्यानावरणादिमानविकमप्रत्याख्यानावरणादिमायात्रिकमप्रत्याख्यानप्रत्याख्यानावरणलोभद्विकं चेत्येकादश हास्यषट्कं तथा पुरुषवेदः सम्यग्मिथ्यात्वसम्यक्त्वयोश्च मिथ्यात्वं सम्यमिथ्यात्वं चेति विंशतिप्रकृतीनां सङ्क्रमः तावद्भवति, यावत्समयोनाऽऽवलिका. प्रमाणः पुरुषवेदोदयः तावत विंशतिः प्रकृतयः निरुक्तषट्प्रकृतिषु पुरूषवेदस्य चरमोदयेऽपि सङक्रामन्तीत्यर्थः । ततो हास्यपटूक उपशान्ते पूर्वाक्तषट्प्रकृतिषु हास्यषट्कस्योपशान्तत्वाद्धास्यषटकमृते चतुर्दश प्रकृतयः संक्रामन्ति, ताथाऽपि तावत्संक्रान्ति यावदवेदकाद्धायाः समयोनाऽऽवलिकाद्वयं व्यतिक्रामति । ततः पश्चात्पुरूषदस्य सर्वथोपशान्तत्वात्पुरूषवेदं विना पूर्वाक्तषटप्रकृतिषु पुरुषवेदरहितपूर्वोक्तत्रयोदश प्रकृतयः संक्रामन्ति । उक्तं च कर्मप्रकृतिौँ -"ततो पुरिसवेगस्स पढमद्वितियसमयूणदुआवलियसेसाए पुरिसवेदो पडिग्गहो ण होति त्ति वीसा तेसु चेव सत्तसु पुरुषवेयरहिएमु छसु संक्रमति जाव समयूणाउ दो आ. पलियाउ। ततो छसु णोकमाएसु उवसंतेसु चोहस्स भवंति, ते चोद्दस तेसु चेव छम संकमति जाव समयूणाओ दो आवलियाओ। ते चेव चोहस्सा पुरिसवेदे उवसंते तेरस भवंति ।" इति। __ तेन पुरुषवेदस्य चरमोदयसमयेऽपि हास्यषट्कस्य संक्रमभवनात्तदानीं सर्वथा तदुपशान्तत्वं न संभवति । एवं पुरुषवेदोदयचरमसमये वर्तमानः शेषं हास्यषट्कं संक्रमयति सर्वथा चोपशमयति, ततोऽनन्तरसमये पुरुषवेदस्य समयोनावलिकाद्वयवद्धनूतनदलं विना शेष पुरुषवेदं हास्यषट्कं च युगपदुपशान्तत्वं प्राप्यते । उक्तं च कषायप्राभृतचूर्णावपि-एदेणकमेण हिदिघंधसहस्सेसु गदेस सत्तणोकसाया उवसंता णवरि पुरिसवेदस्स घे आवलिया बंधसमयूणा अणुवसंता" इति । पुरुषवेदोदयचरमसमये पुरुषवेदस्य चरमस्थितिबन्धः षोडशवार्षिकः सज्वलनानां क्रोधादीनां संख्येयवार्षिको भवति । उक्तं चकर्मप्रकृतिचूर्णी-जंमि समते छ नोकसाया उवसंतातंमि समते पुरिसवेयरसहितिचंधो सोलसवरिसाणिसंजलणाणं बंधो संखेज्जाणिवाससहस्साणि"इति . कषाय धवलादिग्रन्थेष्वपि पुरुषवेदस्य बन्धविच्छेदसमये संज्वलनचतुष्कस्य द्वात्रिंशद्वार्षिकस्थितिबन्ध उक्तः तथा चाऽत्र जयधवलास वेदचरिमसमए पुरिसवेद-चउसंजलरणाणं जहाकम सोलस-बत्तीसबस्समेत्तो जादो सेसाण पुण कम्माणमज्ज वि संखेज्जवस्ससहस्समेत्तो चेव दट्टन्वो त्ति भणिदं होदि । तथैव लब्धिसारेऽपि ... .... तच्चरिमें पुबंधो सोलसबस्माणि संजलजाण । तदुगाणं सेसाणं संखेज्जसहस कासाणि ॥ २६३ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001832
Book TitleKarmaprakrutigatmaupashamanakaranam
Original Sutra AuthorShivsharmsuri
AuthorGunratnasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages332
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy