________________
१८८ ] उपशमनाकरणम्
[ गाथा ४. ___ समयोनाऽऽवलिकादयेन बद्धं पुरुषवेदस्य यदनुपशान्तं दलम्, तदप्यवेदकाद्धायां तावता कालेनोपशमयति । नन्वपगतवेदप्रथमसमयोनाऽऽवलिकाद्वयेन बद्धं दलिकं कथमुपशान्तं न भवतीति चेद् ? उच्यते, पुरुषवेदस्य प्रथमस्थितौ तद्वन्धः प्रथमतः प्रवर्तते, यथा पूर्ववद्धदलमुपशमयति तथैव नूतनबद्धमपि दलमुपशमयति किन्तु कस्मिन्नपि नूतनबद्धे कर्मणि बन्धसमयादाराभ्याऽऽवलिकापर्यन्तं किमपि करणं न प्रवर्तते, बन्धाऽऽवलिका सकलकरणाऽयोग्येति कृत्वा । अतः पुरुषवेदे प्रथमस्थितिसत्काया द्विचरमाऽऽवलिकायाः प्रथमममये पुरुषवेदस्य बद्धंदलिकं बन्धसमयादारभ्याऽऽवलिकाचरमसमयपर्यन्तं तदवस्थं तिष्ठति, तदुपशमनं नास्तीत्यर्थः,सकलकरणा. ऽयोग्यत्वाद् ।बन्धाऽऽवलिकायां व्यतिक्रान्तायां तदनन्तरं घरमाऽऽवलिकायाः प्रथमसमयात्प्रभृत्युपशमयितुमारमते, एकसमयेन बद्धंदलिकमुपशमयितुमावलिकाप्रमाणः कालो गच्छेदिति नियमाद् द्विचरमाऽऽवलिकायाः प्रथमसमये पुरुषवेदस्य बद्धदलिकं चरमाऽऽवलिकायाः प्रथमसम. यात्प्रभृति प्रतिसमयमुपशमयंवरमाऽऽवलिकाचरमसमये पर्वथोपशमयति, अर्थात्पुरुषवेदस्य प्रथमस्थितिचरमसमये द्विचरमाऽऽव लकाप्रथमममयेन बदलं सर्वथोपशम्यत एवं द्विचरमाऽऽव. लिकाया द्वितीयपमये बद्धपुरुावेदस्य दलिकं चरमाऽऽवलिकायाः प्रथमसमयं यावत्तदवस्थं तिष्ठति, तदुपशमनं नाऽस्ति । ततः परं चरमाऽऽवलिकाया द्वितीयसमयात्प्रभृति प्रतिसमयमुपशमय
जन्तुश्वरमाऽऽवलिकायाश्चरमसमये सर्वथा नोपशमयांत, किन्त्वपगतवेदोदयेन जन्तुना प्रथम. समये द्विवरमाऽऽवलि काद्वितीयममयेन बद्ध दलिकं सर्वथोपशम्यते, नाऽ,गिति पुरुषवेदस्य प्रथमस्थिनेर्द्वि नरमावलिकाप्रथमममयेन बद्धदलिकं प्रथमस्थिति चरमसमये हास्यषटकेन महोपशम्यते, किन्तु प्रथ पम्थितेचिरमाऽऽवलिकाद्वितीयादिसमयबद्ध दलिकं प्रथमस्थितेश्वरमसमये सर्वथा नोपशम्यते । एवं पुरुषवेदोदयचरमसमये वेदिते समयोनद्विचरमावलिकायां बद्ध संपूर्णश्चरमाऽऽवलिकाया बद्धं चेति सर्व मिलित्वा समयोनाऽऽवलिकाद्वयेन बद्धं दलिकमनुपशान्तमवतिष्ठते।
अवेदको भूत्वा तावना कालेन तदपि सर्वथोपशमयनि । तत्र ममयोनाऽऽवलिकाद्वयेन बद्धम्य दलिकस्यावेदकाद्धायामुपशमनाविधिश्चाऽयम्-अवेदकाऽद्धायाः प्रथमसमये स्तोमुपशमयति, तते द्वितीयसमयेऽसंख्येयगुणम्.ततोऽपि तृतीय समयेऽसख्येयगुणम् । एवं प्रतिसमयमसंख्येय गुणका. रेण तावदुपशमयति, यावच्चरमसमयः, परप्रकृतिषु च प्रतिसमयं समयोनाऽऽवलिकाद्विकचरमसमयं यावद्यथाप्रवृत्तमंक्रमेण सङक्रमयति । सङ्क्रमक्रमश्चाऽयम् - अवेदकाऽद्धायाः प्रथमममये प्रभृतं मक्रमयति, ततो द्वितोयममये विशेषहीनं ततोऽपि तीयममये विशेषहीनम्, प्रतिसमयं विशेषहीनक्रमेण संज्वलनक्रोधादिषु सङ्क्रमयति । उक्तं च कर्मप्रकृतिचूणौँ- "अवेयगो जं तं समऊण दुआवलिबंध अणुषसंतं तं अपवेज्जगुणसेढीए उवसामिज्जति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org