________________
彝
अल्पबहुत्वम् ]
चारित्र मोहनोयोपशमनाधिकारः
[ १६६
अत्राऽल्पबहुत्वमुच्यते - (१) मोहनीयस्य स्थितिबन्धः सर्वाऽल्पः । (२) ततो ज्ञानावरणदर्शनावरणाऽन्तरायाण।मसंख्येयगुणः, स्वस्थाने तु मिथस्तुन्यः । (३) ततोऽपि नामगोत्रयोरसंख्येगुणः, स्वस्थाने तु परस्परं समानः । ( ४ ) ततो वेदनीयस्य विशेषाऽधिकः । उक्तं च कर्मप्रकृतिचूर्णी - " ततो नाणावरणदंसणावरणअं तराइयाणं बंधहितीओ उवरिं नामगो
इति जाया । एत्थ द्वितीणं अप्पाबहुगं- सव्वत्थोचा मोह णिज्जडिति, नाणावरणदंसणावरणअतराइयाण ति वि द्वितीतो तुल्लाओ असंखेज्जगुणातो, नामगोया दोन्हं वि डीतितो असखेज्जगुणातो वेयणिज्जहिती विसेसाहिया ।" इति । अत्र पञ्चसङ्ग्रहटीकायां नामगोत्रयोः स्थितिबन्धतो वेदनीयस्य स्थितिबन्धोऽसंख्येयगुण उक्तः तथा च तद्ग्रन्थः- “ततः स्थितिबन्धसहस्रेषु गतेषु सत्सु विंशतिकयोर्नामगोत्र योरसंख्येयभागे घातीनि ज्ञानावरणीयादीनि त्रीणि बध्यन्ते । नामगोत्राऽपेक्षया ज्ञानावरणीयादोनां स्थितिबन्धोऽसंख्येयगुणहीनो भवतीत्यर्थः । अत्राऽल्पबहुस्वम्- (१) सर्वस्तोको मोहनीयस्य स्थितिबन्धः । (२) ततो ज्ञानावरणदर्शनावरणाऽन्तरायाणामसंख्येयगुणः स्वस्थाने तु परस्परं तुल्यः । (३) ततो नामगोत्रयोरसंख्येयगुणः स्वस्थाने तु परस्परं तुल्यः । (४) ततोऽपि वेदनोयस्याऽसंख्येयगुणः ।" इति ।
"असंखगुणणाए "त्ति, यत्र मोहनीयं ज्ञानावरणादिभ्यो ऽसंख्येयगुणहीनं कृतम्, ततः परं सर्वत्राऽपि ज्ञानावरणादिभ्योऽसंख्येय गुणहीनमेव क्रमेण "एति " = आगच्छति । एतत्सर्व प्राग्भावितम् । तथा तृतीयं वेदनीयं विंशतिकाभ्यां नामगोत्राभ्यां विशेषाऽधिकं जातं सत्सर्वत्राsपि विशेषाऽधिकमेवैत्यनुवर्तते, किमुक्तं भवति १ नामगोत्रसत्कस्थितिबन्धतो वेदनीय स्थितिबन्धस्य विशेषाऽधिकभवनाऽनन्तरं मोहनीयस्य स्थितिबन्धोऽल्पः, ततोऽसंख्येयगुणो ज्ञानावरणदर्शनावरणाऽन्तरायाणाम्, ततोऽपि नामगोत्रयोरसंख्येयगुणः, ततो वेदनीयस्य विशेषाऽधिकः, इत्थं स्थितिबन्धस्य क्रमोऽग्रेऽपि वक्तव्यः । नामगोत्रयोः स्थितिबन्धतो वेदनीयस्य स्थितिबन्धे विशेषाऽधिके जाते सत्यपि सप्तानां कर्मणां स्थिति सत्कर्मीऽन्तःसागरोपमकोटाकोटीप्रमाणं विद्यते । उक्तं चकर्मप्रकृतिचूर्णौ- "तंमि समए एतेसिं पुव्वं संतं अंतोकोडाकोडीए जहन्नमहीय त्ति" । अत्र स्थितिसत्कर्मणोऽल्पबहुत्वं नोक्तम्, तथाऽपि पूर्ववत्संभाव्यते, इदमुक्तं भवति ( १ ) नामगोत्रयोः स्थितिमच्वं सर्व॑स्तोकम्, (२) ततो ज्ञानावरणदर्शनावरणवेदनीयाऽन्तरायाणां विशेषाऽधिकम्, (३) ततोऽपि मोहनीयस्य विशेषाऽधिकम् । स्थितिसत्त्वस्येदमन्पबहुत्वं कषायप्राभृतचूर्णौ चारित्रमोहनीयक्षपणाऽधिकारगतसत्त्वेन संभाव्यते, कथमेतत्संभवतीति चेद् ? उच्यते- क्षपकश्रेण्यधि:: कारे स्थितिबन्धमाश्रित्योपयुक्तचरमाऽल्पबहुत्वाऽधिगमनतः स्थितिघातसहस्रेषु गतेष्वसंज्ञिबन्ध -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org