SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ उपशमनाकरणम १६८ ] मोहनीयस्य स्थितिबन्धेनाऽसंख्ये यगुणहीनेन भवितव्यम् । अथ स्थितिबन्ध अधिकृत्याऽल्पबहुत्वं चिन्त्यते - (१) नामगोत्रयोः सर्वाऽल्पः स्थितिबन्धः, स्वस्थाने तु मिथस्समानः (२) ततो मोहनीयस्यासंख्येयगुणः (३) ततोऽपि ज्ञानावरणीयदर्शन:वरणीय वेदनीयाऽन्तरायाणामसंख्येयगुणः, स्वस्थाने तु परस्परं समानः ततः परमुकाल्पबहुत्वक्रमेण सहस्रपुव्यतिक्रान्तेषु सत्सु 'वोसग हेडाये' त्ति, मोहनीयस्य स्थितिबन्ध एकहेलयैव विंशतिकयोविंशतिसागरोपम कोटाकोटीस्थितिक पोर्नामगोत्रयोरधस्तादसंख्येयगुणहीनो जातः, किमुक्तं भवतिपूर्वं हि मोहनीयस्य स्थितिबन्धो नामगोत्र योः स्थितिबन्धतोऽसंख्येयगुण आसीत्, संप्रति पुनरेकयैवेत्थं स्थितबन्धोऽसंख्येपगुणहीनो भवति, येन मोहनीयस्य स्थितिबन्धो नामगोत्रयोःस्थितिबन्धतोऽसंख्येयगुणहीनो भवेत् । तदानीमल्पबहुत्वं स्थितिबन्धमाश्रित्य विचार्यते (१) मोहनीयस्य स्थितिबन्धस्सर्व स्तोकः ( २ ) ततो नामगोत्रयोरसंख्येयगुणः स्वस्थाने तु मिथस्तुल्यः । (३) ततोऽपि ज्ञानावरण दर्शनावरणवेदनीयऽन्तरायाणामसंख्येयगुणः स्वस्थाने मिथम्समानः । ततः महस्रेषु स्थितिबन्धेषु व्यतीतेषु सत्सु " तो सगाणमुप्पि तइयं च" त्ति, स्थितिबन्धमधिकृत्य 'त्रिंशत्कान' त्रिंशत्सागरोपमकोटाकोटीस्थितिकानां ज्ञानावरण दर्शनावरणाऽन्तरायाणामुपरि तृतीयं वेदनीयं भवति । किमुक्तं भवति १ प्राग् हि ज्ञानावरणादीनां चतुर्णा स्थितिबन्धो मिथस्तुल्य आसीत्, मंप्रति तु ज्ञानावरणदर्शनावरणवेदनीयाऽन्तरायाणामपि मध्ये ज्ञानावरणदर्शनावरणान्तरायाणां स्थितिबन्धो वेदनीयस्याऽधस्तादसंख्येय गुणहीनो जातः, वेदनीयस्य तु सर्वोपरि जातः । वेदनीयस्य सर्वेभ्योऽसंख्येयगुणः स्थितिबन्धो भवतीत्यर्थः । अत्र स्थितिबन्धमाश्रित्याऽल्पबहुत्वमभिधीयते - (१) सर्वस्तोको मोहनीयस्य स्थितिबन्धः । (२) ततो नामगोत्रयोरसंख्येयगुणः स्वस्थाने तु मिथस्तुल्यः (३) ततोऽपि ज्ञानावरणदर्शनावरणाऽन्तरायाणामसंख्येयगुणः स्वस्थाने तु परस्पः समानः । ( ४ ) ततोऽपि वेदनीयस्याऽसंख्येयगुणः । ततोऽनेन विधिना स्थितिबन्धसहस्रं ष्वतीतेषु सत्सु त्रिंशत्कानां ज्ञानावरणदर्शनावरणातरायणां स्थितिबन्धो विशतिकयोर्नामगोत्रयोः स्थितिबन्धादधस्तनोऽरं ख्येयगुणहीनो भवति । अयं भावः - प्राहि नामगोत्रयोः स्थितिबन्धतो ज्ञानावरणदर्शनावरणाऽन्तरायाणामसंख्येय गुणः निबन्ध आसीत् संप्रति ज्ञानावरणदर्शनावरणान्तरायाणां स्थितिबन्धो नामगोत्रयोः स्थितिबन्धतोऽसंख्येयगुणहीनो भवति तथा नामगोत्रयोः स्थितिबन्धतो ★ वेदनीयस्य केवलं विशेsiधको द्रष्टव्यः । Jain Education International [ गाथा ३७-३९ ★ टिप्पणी० उक्तं च लब्धिसारे.... तेत्तियमेत्तेबधे समोये वीसीयाऐ हेद्वादु, तौसियघादितियाओ गुणहीणनया होंति (लब्धिसार ३३६) तक्काले वेयणीयं गोयादुसाहिय होदि इयि मोहतीस वीसयदेर्याणआरणं कमो जादो (लब्धिसार० २३७ ) For Private & Personal Use Only www.jainelibrary.org
SR No.001832
Book TitleKarmaprakrutigatmaupashamanakaranam
Original Sutra AuthorShivsharmsuri
AuthorGunratnasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages332
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy