________________
अपूर्वस्थितिबन्धः ]
चारित्रमोहनीयोपशमनाधिकारः
[ १६७
गोत्रयोरन्यं स्थितिबन्धमसंख्येयगुणहीनमारभते, पश्चानां कर्मणां तु पूर्ववत्संख्येयगुणहीनम् । अतःप्रभृति नामगोत्रयोः पल्योपमाऽसंख्येयतमभागप्रमाणः स्थितिबन्धः प्रवर्तते, स च पूर्वपूर्व तोगुणहीनो भवति शेषकर्मणां तु पल्योपम संख्ये यतम भागप्रमाणो भवति, स चोत्तरोत्तरः संख्येयगुणहीनो भवति । अत्र स्थितिबन्धमाश्रित्याऽल्पबहुत्वं विचार्यते - ( १ ) नामगोत्रयोः सर्व स्तोकः स्थितिबन्धः । ( २ ) ततो ज्ञानावरणदर्शनावरण वेदनीयाऽन्तरयाणामसंख्येयगुणः स्वस्थाने तु परस्परं तुल्यः । (३) ततोऽपि मोहनीयस्य संख्यातगुणो भवति । तत उक्तक्रमेण स्थितिबन्धसहस्रेषु वा गतेषु सत्सु ज्ञानावरणदर्शनावरण वेदनीयाऽन्तरायाणां स्थितिबन्धोऽसंयेयगुणहीनो भवति । अयं भावः - नामगोत्रयोः पन्याऽसंख्येय भागप्रमाणस्थितिबन्धभवात् सहस्रेषु स्थिनिबन्धेषु गतेषु ज्ञानावरणदर्शनावरणवेदनीयान्तरायाणां स्थितिधोऽसंख्य गुणहीनो भवति पल्योपमाऽसंख्येयभागमात्रो भवतीत्यर्थः । एवं नामगोत्रयोः स्थितिबन्धः पन्योपमाऽसंख्येयभागमात्रो भवति, मोहनीयस्य तु पल्योपमसंख्येयतमभागप्रमाणो भवति । तदानीं स्थितिबन्धमधिकृत्याऽल्पबहुत्त्वं निगद्यते - (१) नामगोत्रयोः स्थितिबन्धः सर्वाल्पः, स्वस्थाने तु मिथस्तुल्यः (२) ततो ज्ञानावरणदर्शनावरणवेदनीयाऽन्तरायाणाम संख्यातगुणः, स्वस्थाने तु मिथस्समानः । (३) ततोऽपि मोहनीयस्याऽसंख्यातगुणः । ततः स्थितिबन्धसहस्रेषु जितेषु सत्सु " एक पहारेण तीसगाणमहो मोहे" त्ति, एकप्रहारेणैकहेलयैव त्रिंशत्कानां त्रिंशत्सागरोपमकोटाकोटीस्थितिकानां ज्ञानावरणदर्शनावरण वेदनीयाऽन्तरायाणामधस्तान्मोहनीये कर्मेगि स्थितिबन्धमधिकृत्या संख्येयगुणहीनो भवति । नात्र कश्चिदन्यो विकल्पः करणीयः । उक्तं च कर्मप्रकृतिचूर्णौ- "ततो द्वितिबंध सहस्सेसु बहुसु गएसु 'एक्कष्पहारेण तीस गाणमहो मोहे' ति एक्कप्पहारेण चैव त्ति एक हेल्लाए 'तो सगाणं'ति नाणावरणदंसणावरणवेपणियां न राईयाणि एएसि द्वितीतो मोहणिजस्स द्विती असंखेज्जगुणहीणा
नथ अन्नोविकप्पो । "इति । पूर्वं हि मोहनीयस्य स्थितिबन्धो ज्ञानावरणीयदीनां स्थितिवन्तोऽसंख्येयगुणो भवति स्म । संप्रति पुनरेकहेलयैव ज्ञानावरणीयादीनां स्थितिबन्धतोऽपि
भागमात्रः पल्यमात्रः स्थितिबन्धो जायते । वोसियस्थितिबन्धात्तिसियस्थितिबन्धः संख्ये यगुण इति विशेषो ज्ञेयः । (लब्धिसारटीका २३२ ) नामगोत्रयोर्ट्स रापकृष्टिस्थितो जातायां स्थितिबंधाऽपसरणमसंख्यात बहुभागप्रमाणं भवति । एवमसंख्या बहुभागप्रमाणं स्थितिबन्धाऽपसरणं तावद्वक्तव्यं यावदसं ख्यातवर्ष प्रमाणः स्थितिबन्धो भवति । लब्धिसाराऽक्षराणि त्वेवम् दूरापकृष्टस्थिते: प्रभृति संख्यातवर्षसहस्रमात्रस्थितिबन्धोत्पत्तिपर्यन्तं पल्याऽसंख्यात बहुभागमात्रं स्थितिबन्धाऽपसरणं भवति । दूरापकृष्टरेनन्तरसंख्यातसहस्रमात्रस्थितिबन्ध पर्यन्तमसंख्यातगुणहीनां पल्या संख्यातैकभागमात्रस्थिति बध्नातीत्यर्थः । (लब्धिसार गाघाटीका २३१)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org