________________
अपूर्वस्थितिबन्धः ] चारित्रमोहनोयोपशमनाधिकारः
[ १६५ मोहनी यस्य च द्विपन्योपममितो भवति । पल्योपमपापल्योपमादिस्थितिबन्धं यावत्प्राक्तनस्थितिवन्तः सर्वोऽपि पूर्वस्मात्पूर्वम्मात्पल्योपमसंख्येयतमेन भागेन हीनो हीनतरो ज्ञातव्यः । आयुर्व नानां सप्तानां कर्मणां स्थिति मकांडनासागरोपनकोटाकोटीप्रमाण मेव भवति । उक्तं च कर्मप्रकृतिौँ – “सव्वेसिं संताणि जहक्कमहोणाणी अतोकोडाकोडीए" इति । स्थितिमत्कर्मणश्चाऽल्पबहुत्व तथैव तेन नामगोत्रयोः स्थितिसत्वं स्तोकम्, ततो ज्ञानदर्शनावरणवे. दनीयाsनरायाणां विशेषाधिकार ! सतो मोहनीयस्य च विशेषाधिकम् उक्तं च पञ्चसंग्रहमूलटोकायाम् - "सत्कर्मणि चाऽल्पबहुत्वं बन्धक्रमेण वक्तव्यम् । यद्यप्यन्तःकोटाकोटिः सप्तानामपि तथाऽपि नामगोत्रयोः स्तोक वेदनीयघातिकर्मणां विशेषाऽधिक मोहनीयस्यविशेषाऽधिकम् ।
___पल्यस्ये" ति षष्टी पञ्चम्यर्थे, अध इति चाऽध्याइर्तव्यम् । ततः पल्योपमादधः स्थितिबन्धस्य संख्येय गुणहानिर्भवतीत्यर्थः । इदमुक्तं भवति-यस्य कर्मणो यस्मिन्काले पल्योपाप्रमाणस्थितिबन्धो जातः, तम्य कर्मणस्तकालात्प्रभृत्पन्योऽन्यः स्थितिबन्धो जायमानः संख्येयगुणहीनो भवति । उक्तं च कर्मप्रकृतिचूर्णी -"जस जस्स पलिओवमसमगो हितिबंधो होमि तप्पभिति तस्स तम्स संवेज्जगुणहाणीए ओसरति ।" इति । ततश्चेदानीं नाममात्रयोः स्थिनिबन्धात्पल्योपमप्रमाणस्थितिबन्धं मंख्येय गुणहीनं करोति, शेषाणां तु कर्मणां पल्पोपमसंख्येयमागहीनं करोति, उक्तं च कषायाभृतचूर्गों-'णामगोदाण पलिदोवमढिदिगादो बंधादो अण्णं जं हिदिबंध बंधहिदि सो हिदि. बंधो संग्वेज्जगुगहोणो । सेसाणं कम्माणं विदिधंधो पलिदोवमस्स संग्वेज्जदिभागहोणो "इति । एवं क्रमेण कतिपणेषु स्थितिबन्धमहस्रेषु गते ज्ञानावरणदर्शनावरण वेदनीयाऽन्तरायाणां पस्योपममात्रः स्थितिबन्धो भवति. नामगोत्रयोश्च पल्योपमसंग्व्येयतमभागप्रमाणो मोहनीयस्य च साधपल्योपममानो भवति, उक्तं च कर्मप्रकृतिचूर्णी-“एवं संखेज्जेसु हितिबंधसहस्सेसु गएसु नाणावरणदसणावरणवेयणीयअंतराईयाणं पलिओवम हितिबंधो मोहणिज्ज स दिवड्डपलिओवमहितिबंधो" इति । कषायप्राभत वूगौ त्यत्र मोहनीयस्य एल्योपमत्रिभागेनाऽधिकः पन्योपमप्रमाणः स्थितिबन्धो भवती
+ उक्तं च लब्धिसारे ....अन्तःकोटाकोटीमात्रस्थितिबन्धात्प्रभृति पल्योत्पत्तिपर्यन्तं पल्यसंख्यातकभागमात्रं स्थितिबन्धाऽपसरणं भवति । पल्पमात्रस्थितिबन्धात्प्रभृति पल्यसंख्यातबहुमागमात्र. स्थिति बन्धाऽपसरणं भवति । पल्यस्थिते रनन्तरं दूरापकृष्टिस्थितिपर्यन्तं संख्यातगुणहोना पल्यसंख्यातकभागमात्री स्थिति बध्नातीत्यर्थः । (लब्धि सार० २३१ टीका)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org