________________
अपूर्वः स्थितेर्बन्धो घातश्च ] चारित्रमोहनीयोपशमनाधिकारः
[ १६३ पल्योपमसंख्येयभागोऽहितो घातः।तथाऽपि नामगोत्रयोःस्तोको हीनस्थितत्वात्, ज्ञानावरणदर्शनावरणाऽन्तरायवेदनीयानां विशेषाऽधिको मोहनीयस्य तस्मादपि विशेषाऽधिक इति गाथार्थः ।" इति अनिवृत्तिकरणप्रथमसमय एव देशोपशमनानित्तिनिका चनाकरणानि व्यवच्छेदमायान्ति । किमुक्तं भवति ? उच्यते-अनिवृत्तिकरणप्रथमसमये किमपि दलिकं कस्यचिदपि कर्मणो देशोपशमितं वा निधत्तं वा निकाचितं वा सत्तायां न तिष्ठति, तथा चाऽतः प्रभृति कस्मिन्नपि कर्मणि देशोपशमनानिद्धत्तिनिकाचनाकरणानि न प्रवर्तन्ते । एवं संख्यातसहनेषु स्थितिघातेषु स्थितिबन्धः पहस्रपृथक्त्वसागरोपमप्रमाणो भवति । उक्तं च कर्मप्रकृतिचूौं--"ततो द्वितिकंडगसहस्सेसु गएसु बज्झमाणहितिबंधो सागरोपमसहस्सपुहुत्तं भवति" इति । अततोऽनिवृत्तिकरणस्य संख्ये येषु भागेषु गतेषु सत्स्वेकस्मिंश्च संख्येयतमे भागेऽवशिष्टमाने सति स्थितिबन्धोऽसंज्ञिपञ्चेन्द्रियबन्धतुल्यो भवति, इदमुक्तं भवति-नामगोत्रयोः सागरोपमस्य द्विसहस्रसप्तमभागप्रमाणो स्थितिबन्धो भवति, ज्ञानदर्शनावरणाऽन्तरायवेदनीयानां सागरोपमत्रिसहस्रसप्तभागप्रमाणो मोहनीयस्य च सागरोपमचतुःसहस्रसप्तभागप्रमितः । तदनन्तरं स्थितिखण्डपृथक्त्वे गते सति चतुरिन्द्रियवन्धतुल्यः स्थितिबन्धो भवति, पृथक्त्वशब्दस्य बहुत्ववाचित्वेन संख्यातसहस्रषु स्थितिखण्डेषु गतेष्विति व्याख्येयम्, इदमुक्तं भवति-स्थितिखण्डपृथक्त्वे गते सति चतुरिन्द्रियवन्धतुल्यास्थितिवन्धो भवति, असंज्ञिपञ्चेन्द्रियस्थितिबन्धतुल्यबन्धभवनानन्तरं संख्यातसहस्रशु स्थितिखण्डेषु ब्रजितेषु सत्सु नामगोत्रयोःसागरोपमशतद्विसप्तभागमात्रः, ज्ञानदर्शनावरणाऽन्तरायवेदनीयानां सागरोपमशतत्रिसप्तभागप्रमाणो मोहनीयस्य च मागरोपमशतचतुःसप्तभागमितः स्थितिबन्धो भवति ।
ततो भूयः स्थितिखण्डपृथक्त्वे गते सति त्रीन्द्रियबधन्तुल्यः स्थितिबन्धो भवति । इदमुक्तं भवति-चतुरिन्द्रियस्थितिवन्धतुल्यबन्धात्संख्यातसहस्रषु स्थितिखण्डेषु व्यतिक्रान्तेषु सत्सु नामगोत्रयोः पञ्चाशत्सागरोपमद्विसप्त मागप्रमितः,ज्ञानदर्शनावरणाऽन्तरायवेदनीयानां पञ्चाशत्सागरोपमत्रिसप्तभागमात्रश्चारित्रमोहनीयस्य च पञ्चाशत्सागरोपमचतुःसप्तभागप्रमाणः स्थितिबन्धो +-तथैवोक्तं लब्धिसारेऽपि-दिदिबंधसहस्सगदे संखेज्जा बादरे गदा भागा तत्थ असण्णिजस्स दिदिसरिसदिदिबंधणं होदि । (लब्धिसार गाथा २२८) तट्टीका-अनिवृत्तिकरणप्रथमसयादारभ्याऽन्तमुहूर्त प्रति पल्यसंख्यातभागमात्रस्थितिबन्धाऽपसरणक्रमेण संख्यातसहस्रस्थितिबन्धेषु तत्करणकालस्य संख्यातबहभागा यदा गच्छन्ति तदाऽसंज्ञिस्थितिबन्धसदृशस्थितिबन्धो भवति । सहस्रसागरोपमप्रतिभागेननामगोत्रयोद्विसप्तमभागप्रमितः । ज्ञानावरणदर्शनावरणाऽन्तरायसातवेदनोयानां स्थितिबन्धः सागरोपमसहस्रत्रिसप्तमभागप्रमितः, चारित्रमोहस्थ स्थितिबन्धः सागरोपमसहस्रचतुःसप्तभागप्रमितो भवतीत्यथः। एवं विशतिकत्रिंशत्कचत्वारिंशत्ककर्मणां प्रतिभागक्रम उत्तरत्रापि ज्ञातव्यः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org