________________
१६२ ]
उपशमनाकरणम्
[ गाथा ३५-३६
“किन्त्वत्र तृतीये करणे भेदः, अन्तःकोटा कोटीमानं बन्धं सत्कर्म च सप्तानामायुवर्णानां कर्मणां करणादौ भवतीति । " इति ।
तथैव पञ्चसमहमलयगिरिटीकायामप्युक्तम्- केवलमत्र तृतीयकरणे भेदस्तमेवदर्शयति-3 -अन्तः कोटा कोटी मानं बन्धं सत्कर्म च सप्तानामायुर्वर्ज । नां करणप्रथमसमये करोति ।" इति । अत्र यद्यपि प्रागुक्तेष्वपि करणेष्वेतावान् (अन्तःसागरोपमकोटाकोटियमाणः ) बन्ध एतावच्च सत्कर्म सप्तकर्मणां प्राप्यते स्म तथाऽप्यत्र तदपेक्षया बन्धसत्कर्मणी असंख्येयगुणहीने द्रष्टव्ये इति विशेषः । अनिवृत्तिकरणभाव्यपि बन्धः पूर्वक्रमेण हानिं गच्छति, तद्यथा-अन्तर्मुहूर्ते व्यतिक्रान्ते स्थितिबन्धे पूर्णे सत्यन्यं पल्योपमसंख्येय भागहीनं करोति, तस्मिन्नपि पूर्णे सत्यन्यं स्थितिबन्धं पल्योपमसंख्येय भागहीनं करोतीत्यादि ।
अल्पबहुत्वमपि बन्धसत्ताऽपकर्षेऽपि पूर्वक्रमेणेव वेदितव्यम् । तद्यथा-बन्ध सत्कर्मणोः स्थित्यपेक्षया सर्वस्तोके नामगोत्रे, स्वस्थाने तु परस्परं तुल्ये । ततो ज्ञानावरणवेदनीयाऽन्तरायाणि विशेषाऽधिकानि स्वस्थाने तु परस्परं तुल्यानि । ततोऽपि मोहनीयं विशेषाऽधिकम् । एतच्चा बहुत्वं सर्वकालमपि द्रष्टव्यं यावदेतत्स्थानमिति । उक्तं च कर्मप्रकृतिचूर्णौ- "अप्पबहुत्ति पुव्वकम्मेणेव अप्पा बहुग पि सव्वधोवाणि नामगोयाणि नाणावरणदंसणावरणवेय fuxअंतराइयाणि चत्तारि वि तुल्झाणि विसेसाहिगाणि चरित्तमोहणिज्जं विसे. साहियं । सव्वकालं जाव एयंठाणं ताव एवं अप्पाबहुगं" इति । स्थितिखण्डस्य विशेषं प्रदर्शयितुकाम आह
टिइकंड मुक्कस्सं पि तस्स पलस्स संखतमभागो ।
टिबंध बहुसहस्से सेक कं जं भणिस्सामो ॥३६॥
स्थितिखण्डमुत्कृष्टमपि तस्य पत्यस्य संख्येधतम भागः । स्थितिबन्धबहुसहस्रष्वेकैकं यद्मष्यामि ||३६|| इति पदसंस्कार:
उत्कृष्ट स्थितिखण्डं घात्यमानं तस्य = अनिवृत्तिकरणे प्रविष्टस्य चारित्रमोहोपशमकस्य पत्योपमसंख्येयभागमत्रमेव भवति, नाऽधिकम् जघन्यमपि तावदेव, केवलमुत्कृष्टपल्योपमसंख्य ये तमभागप्रमाणस्थितिखण्डतो जघन्यमिदं स्थितिखण्डं लघुतरं ज्ञातव्यम् । तत्राऽयं विशेषः - सप्तकर्मण स्थितिखण्डस्य पल्योपमसंख्येयतममागमात्रत्वेऽपि नामगोत्रयोः स्थितिखण्डं सर्वस्तोकम्, ततो ज्ञानावरणदर्शनावरण वेदनीयाऽन्तरायाणां विशेषाऽधिकम् ततोऽपि मोहनीयस्य विशेषाऽधिकम् । उक्तं च पञ्चसंग्रह उपशमनाऽधिकारे मूलटीकायाम् - " यद्यपि सप्तानामपि कर्मणां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org