________________
१५२ ]
उपशमनाकरणम्
[ गाथा ३२
(२७) ततः पल्योपममात्रं स्थितिसत्त्वं विशेषाऽधिकं पल्योपमप्रमाण स्थितिसत्त्वस्य पूर्वतः पन्योपमसंख्याततमभागेनाऽधिकत्वात् ।
(२८) तनोऽपूर्व करणे प्रथमस्योत्कृष्ट स्थितिखण्डस्य विशेषः संख्यातगुणः, कथमिति चेद् ! उच्यते - अपूर्वकरणे जघन्यस्थितिखण्डं पल्योपमसंख्येय भागमात्रं तथोत्कृष्टस्थितिखण्डं सागरोपपृथक्त्वप्रमाणं भवति, जघन्यखण्ड मुत्कृष्टखण्डतो विशोध्य शुद्धशेषं संख्येयभागोनसागरोपमपृथक्त्व प्रमाणं भवत्पूर्वपदतः संख्येयगुणं भवति ।
(२९) ततो दर्शनमोहनीयस्याऽनिवृत्तिकरणप्रथमसमयं प्रविष्टस्य स्थितिसत्कर्म संख्येयगुणम्, कुत इति चेद् ? उच्यते अनिवृत्तिकरणस्य प्रथमसमये दर्शनत्रिकस्य स्थितिसत्कर्मणः सागरोपमलक्षपृथक्त्व प्रमाणत्वेन पूर्वतः संख्यातगुणत्वं सिध्यति ।
(३०) ततो दर्शनमोहनीयवर्जानां कर्मणां जघन्यतः स्थितिबन्धः संख्यातगुणः । कथमिति चेद् १ उच्यते – शेषकर्मणां जघन्यस्थितिबन्धस्याऽन्तः सागरोपमकोटीकोटीप्रमाणत्वेन पूर्वतः संख्यातगुणत्वं भवति ।
(३१) ततस्तस्यैवोत्कृष्टस्थितिबन्धः संख्यातगुणः । अपूर्वकरणस्य प्रथमसमये य उत्कृष्टस्थितिबन्धः प्राप्यते स च पूर्वतः संख्यातगुणो भवतीत्यर्थः ।
(३२) ततो दर्शनमोहनीयवर्णानां जघन्यं स्थितिसत्कर्म संख्येयगुणम् । स्थितिघाते व्यवच्छिन्ने शेषकर्मणः स्थितिसच्वं पूर्वतः संख्येयगुणं भवति ।
(३३) ततस्तस्यैवोत्कृष्ट स्थितिसत्कर्म संख्येयगुणम्, शेषकर्मणामपूर्वकरणस्य प्रथमसमये संभवदुत्कृष्ट स्थितिसवं पूर्वतः संख्ये यगुणं ज्ञातव्यम् । इति समाप्तमल्पबहुत्वम् ।
चारित्रमोहनीयमुपशमयितुकाम आदावनन्ताऽनुबन्धिविसंयोजनां कृत्वा दर्शन त्रिकं च क्षपयित्वोपशमश्रेण समारोहतीति प्रकार उक्तः । सम्प्रति यो वेदकसम्यग्दृष्टिः सन्नुपशमश्रेणि प्रतिपद्यते, स बद्धायुष्कोऽबद्धायुष्को वा भवति, स च चतुर्थप्रभृतिसप्तम पर्यवसान गुणस्थानके - ऽनन्तानुबन्धिनो विसंयोज्य ततोऽन्तर्मुहूर्ते व्यतिक्रान्ते यथाप्रवृत्तः सन् चतुर्विंशतिसत्कर्मा दर्शनत्रिकमुपशमयितुमुपक्रमते, उक्तं च कषायप्राभृतचूर्णी- तदो अणंतानुबंधी विसंजोइदे अंत्तोमुहुत्तमधापवत्तो जादो असादअरदिसोगअजसगिन्त्तियादिणि तावकम्माणि बंधादि तदो अंतमुत्तेण दंसणमोहणीयमुवसामेदि" इति । केषांचित्पुनर्मतेन मनुष्यगतावेवाऽनन्तानुबन्धिकपायानुपशमय्याऽष्टाविंशतिसत्कर्मा पष्ठप्रभृतिगुणस्थानके दर्शनत्रिकमुपशमयितुमारभत इति दर्शनत्रिकोपशमनामाविश्चिकीषु राह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org