SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ चरमखण्डाद्यल्पबहुत्वम् ] अल्पबहुवाधिकारः [ १५१ (२२) ततः संख्यातगुणहानिस्थितिखण्डानां चरमखण्ड संख्यातगुणं, पन्योपमप्रमाणे स्थितिमत्कणि जाते सत्तागतस्थितेः संख्यातबहुभागाः प्रतिस्थितिघाते पात्यन्ते, एवमनेकसहस्रं षु स्थितिघातेषु वजितेष्विदं चरमखण्डं प्राप्यते, परं सत्तागतस्थितेः संख्यातबहुभागा एव नाश्यन्ते इदं खण्डं वातयता जन्तोः सत्तागतस्थितेः संख्येयभागमात्रस्थितिसत्वमवशिष्यते शेषसंख्येयबहुमागाश्च चरमखण्डेन विनाशिता भवन्ति, दगपकृष्टिस्थानात् प्राक सत्तागतस्थितेह मागविनाशात् पूर्वपदस्याऽवशिष्टसंख्यातभागगता संख्येयवहुभागमात्रत्वात् पूर्वत इदं स्थितिखण्डं संख्यातगुणं विनिश्चीयते । (२३) ततः पन्योपमस्थितिमत्कर्मणि जाते द्वितीयस्थितिखण्ड संख्येयगुणम् । कामति चेत् ? उच्यते-अनन्तरोकाखण्डतोऽने पहलस्थितिघातैः प्रागिदं स्थितिखण्डं प्राप्यते । पूर्वपूर्वस्थितिघाते च पूर्ण उत्तरोत्तरखण्डेन संख्येयबहुभागप्रमाणा स्थितिर्घात्यते तेन पूर्वपदत इदं पदं संख्येयगुणं सुनिश्चितं भवति, न चात्र प्रथमस्थितिखण्डं विहाय द्वितीयस्थितिखण्डं कुतो गृहयते इति वाच्यम्, प्रथमखण्डस्य संख्येय भागन्यूनपल्योपमप्रमाणत्वात्, अस्य पल्योपमसंख्येयभागप्रमाणत्वात् । (२४) ततो यस्मिन् स्थितिखण्डेऽपगते दर्शनमोहनीयस्य पल्योपमितं स्थितिसत्कर्म भवति तस्थितिखण्डं संख्येयगुणं भवति । कुत इति चेत् ? उच्यते-इदमपि स्थितिखण्डं पल्योपमसंख्येयभागप्रमाणं भवति, यतः पल्योपमप्रमाणा स्थितिर्यावन्न भवति, तावस्थितिखण्डं पल्योपमसंख्येयभागमात्रं भवति, तथाऽपि पूर्वतः संख्येयगुणम् । (२५)ततोऽपूर्वकरणे जघन्यस्थितिखण्डं संख्यातगुणम् । कुत इति चेत् ? उच्यतेइदमपि स्थितिखण्डं पल्योपमसंख्येयभागप्रमाणं भवति तथा पूर्वपूर्वखण्डत उत्तरोत्तरखण्डस्य विशेषहीनत्वेनाऽपूर्वकरणस्य प्रथमस्थितिखण्डतः पल्योपमप्रमाणस्थितिकरणकाले समाप्यमानस्थितिखण्डं संख्यातगुणहीनं भवति, अपूर्वकरणस्य प्रथमखण्डतस्तच्चरमखण्डस्याऽपि संख्येयगुणहीनत्वात् उक्तञ्च कषायप्रातचर्णिसूत्रे-पढमहिदिखंण्डयं बहुआं विदियं द्विदिखंडयं विसेसहीणं, तदीयं हिदिखंड्यं विसेसहीणं एवं पढमादो द्विदिखंडयादो अंतो अपुव्वकरणडाए संखेजगुणहीणं पि अस्थि ।" इति । अत इदं खण्डं पूर्वतः संख्यातगुणम् ।। (२६) ततः पल्योपममात्रे स्थितिसत्कर्मणि जाते प्रथमस्थितिखण्ड संख्येयगुणम् । कुत इति चेद् ? उच्यते-पल्योपमप्रमाणे स्थितिसत्कर्मणि जाते सत्तागतस्थितिः संख्येयगुणहीना भवति । इत्थं पल्योपमप्रमाणे स्थितिसत्कर्मणि जाते प्रथमखण्डस्य पस्योपमसंख्यातबहुभागप्रमाणत्वेन पल्योपमसंख्याततमभागप्रमाणापूर्वकग्णवर्तिप्रथमखण्डतः संख्यातगुणमेव । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001832
Book TitleKarmaprakrutigatmaupashamanakaranam
Original Sutra AuthorShivsharmsuri
AuthorGunratnasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages332
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy