________________
१५० ]
उपशमनाकरणम्
[ गाथा-३२ (१६)ततः सम्यक्त्वमोहनीयस्याऽसंख्येयवर्षप्रमाणं चरमस्थितिखण्डमसंख्येयगुणम् । पल्योपमाऽसंख्येयभागप्रमाणचरमखण्डस्याऽसंख्यातवर्षप्रमाणत्वादसंख्येयगुणं सिद्धयति ।
(१७)ततः सम्यक्त्वमिथ्यात्वस्य चरममसंख्येयवर्षप्रमाणं स्थितिखण्डं विशेषाऽधिकम् कथम् ? इति चेत्, उच्यते-पल्योपमाऽसंख्येयभागप्रमाणद्विचरमखण्डं यावत् । सम्यक्त्वमोहनीयस्य मिश्रमोहनीयस्य चोमययोः स्थितिसत्त्वं स्थितिखण्डं च समाने भवतः । पल्योपमाऽसंख्येयभागप्रमाणे चरमखण्डे घात्यमाने मिश्रस्याऽऽवलिकासत्कर्मणि मुच्यते, सम्यक्त्वमोहनीयस्य त्वष्टवर्षप्रमाणा स्थितिः परित्यज्यते, इति कृत्वा सम्यक्त्वमोहनीयस्य चरमखण्डतो मिश्रस्य चरमखण्डमावलिकान्यूनवर्षाऽष्टकेनाऽधिकं भवति ।
(१८) ततो मिथ्यात्वे क्षपिते सम्यक्त्वसम्यक्त्वमिथ्यात्वयोः प्रथमस्थितिखण्डमसंख्येयगुणम्। कुतः? इति चेद्, उच्यते- मिथ्यात्वक्षपणाऽनन्तरमनेकसहस्रषु स्थितिघातेषु व्यतिक्रान्तेषु मिश्रस्य चरमखण्डं प्राप्यते, मिथ्यात्वक्षपणाऽनन्तरं च प्रतिस्थितिघाते सत्तागतस्थितिसत्त्वस्याऽसंख्येयबहुभागा घात्यन्ते, एकभागश्च सत्तायामवतिष्ठत इति कृत्वा मिश्रस्य द्विचरमखण्डतोऽपि चरमखण्डस्याऽसंख्यातभागमात्रत्वेन चरमखण्डतो द्विचरमखण्डस्याऽसंख्यातगुणत्वं सिध्यति, तर्हि मिथ्यात्वे क्षपिते सम्यक्त्वसम्यक्त्वमिथ्यात्वयोः प्रथमखण्डस्य सुतरामसंख्येयगुणत्वं सिध्यति ।।
(१९) ततो मिथ्यात्वसत्कर्मणि सति सम्यक्त्वसम्यक्त्वमिथ्यात्वयोश्चरमस्थितिखण्डमसंख्येयगुणम् । कथमिति चेद्, उच्यते-मिथ्यात्वस्य चरमखण्डे घात्य माने तात्कालिकसम्यक्त्वमिश्रखण्डमसंख्यातगुणं भवति, मिथ्यात्वे क्षपिते प्रथमखण्डतोऽस्य खण्डस्य पूर्ववर्तित्वात, क्षीणमिथ्यात्वस्य च जीवस्य मिश्रस्य स्थितिखण्डस्य स्थितिसत्त्वसत्काऽसंख्येयबहुभागमात्रत्वात् ।
(२०) ततो मिथ्यात्वस्य चरमस्थितिखण्डं विशेषाऽधिकम् । कथमिति चेद, उच्यतेमिथ्यात्वस्य द्विचरमस्थितिखण्डं यावदर्शनत्रिकस्य स्थितिसत्त्वं समानं भवति । तस्मात्स्थितिसत्कर्मतो मिथ्यात्वस्थाऽऽवलिको मुक्त्वा शेषस्थितिसत्वं घात्यते, सम्यक्त्वमिश्रयोस्तु पल्योपमाऽसंख्येयभागप्रमाणं परित्यज्य शेषस्थितिसत्त्वं घात्यते, अतो मिथ्यात्वस्य चरमखण्ड तात्कालिकसम्यक्त्वमिश्रखण्डत आवलिकान्यूनपल्योपमाऽसंख्येयभागेनाऽधिकम् ।
(२१ ततोऽसंख्यातगुणहानिस्थितिखण्डेषु मिथ्यात्वसम्यग्मिथ्यात्वसम्यक्त्वानां प्रथमस्थितिखण्डमसंख्यातगुणम् कुतः? इति चेद्, उच्यते-दापकृष्टिमात्रस्थितिसत्कर्मणि जाते सत्तागतस्थितेरसंख्येयवहुभागप्रमाणं खण्डं भवति । तत्र मिथ्यात्वचरमखण्डमाश्रित्याऽनेकसहस्रस्थितिघातः पूर्ववर्तित्वात्प्रथमखण्डस्य पूर्वपदतोऽतोऽस्य स्थितिखण्डस्याऽसंख्यातगुणत्वं सिध्यति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org