SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ स्थितिधातकालाद्यल्पबहुत्वम् ] अल्पबहुत्वाधिकारः [१४९ स्थितिबन्धकालः पूर्वतः संख्येयगुणौ परस्परं च तुल्यौ भवतः, यतः समकालीनयोस्तयोस्तुल्यत्वं तथा चैकस्मिन्स्थितिघाते सहस्राणि रसघाता भवन्ति ।। (४) तत उत्कृष्ट द्वे(अद्धे )परस्परं तुल्ये पूर्वतश्च विशेषाधिके । अपूर्वकरणप्रथमसमय आरभ्यमाणस्थितिघातकालस्तात्कालिकश्च स्थितिबन्धकालःपरस्परं तुल्यौ पूर्वतश्च विशेषाऽधिको विशुद्धरत्पत्वात् । (५)ततः कृतकृत्यस्यस्याऽद्धा संख्यातगुणा, कृतकरणाऽद्धायां संख्येयस्थितिबन्धगमनोपलम्भात्संख्यातगुणेन बृहत्तराऽन्तमुहूर्तप्रमाणत्वात् । (६) ततः सम्यक्त्वमोहनीयस्य क्षपणाद्धा संख्यातगुणा, अष्टवर्षप्रमाणे सम्यक्त्वमोहनीयस्थितिसत्कर्मणि जाते तद्वेदनाय यः कालो व्यतिक्रान्तो भवति, स पूर्वतः संख्यातगुणः ।। (७) ततोऽनिवृत्तिकरणाऽद्धा संख्यातगुणा । अनिवृत्तिकरणस्य संख्येयतमे भागे शेषे सम्यक्त्वमोहनीयशपणाकाला प्रारभ्यते, अतोऽनिवृत्तिकरणकालः पूर्वतः संख्यातगुणः ।। (८) ततोऽपूर्वकरणाद्धा संख्यातगुणा । सर्वत्राऽनिवृत्तिकरणतोऽपूर्वकरणस्य संख्येयगुणत्वात् । ___(6,ततो गुणश्रेणिनिक्षेपो विशेषाऽधिकः, कुत इति चेद् ? उच्यते-गुणश्रेणिनिक्षेपस्याऽपूर्वकरणाऽनिवृत्तिकरणाद्धाद्वयात्किश्चिदधिकत्वेन पूर्वतो विशेषाऽधिकत्वम् । (१०) ततः सम्यक्त्वमोहनीयस्य द्विचरमखण्डस्य पूर्वतः संख्यातगुणेन बृहत्तगऽन्तमुहूर्तप्रमाणत्वात् (११)ततस्तस्यैव चरमखण्ड संख्यातगुणम्, द्विचरमखण्डतश्वरमखण्डस्य संख्येयगुणत्वस्य प्रागुक्तत्वात् । (१२) ततोऽष्टवर्षप्रमाणस्थितिसत्कर्मणि शेषे यदन्तमुहूर्तप्रमाणं स्थितिखण्डं तत्संख्यातगुणम्, प्रथमखण्डस्याऽन्मुहूर्तप्रमाणत्वेऽपि पूर्वतः संख्येयगुणेन बृहत्तराऽन्तमुहूर्तप्रमाणत्वात् । (१३) ततो जघन्याऽबाधा संख्यातगुणा, ज्ञानावरणादिकर्मणो जघन्य स्थितिवन्धस्याऽ. न्तःकोटाकोटीप्रमाणत्वेन जघन्याऽवाधाया अन्तमुहृतप्रमाणत्वेऽपि पूर्वतः संख्यातगुणेन बृहत्तराऽन्तमुहूर्तप्रमाणत्वात् । (१४) तत उत्कृष्टाऽवाधा संख्यातगुणा, अपूर्वकरणप्रथमसमये ज्ञानावरणादिकर्मस्थितिबन्धस्य जघन्यस्थितिवन्धतः संख्यातगुणत्वेन जघन्याऽबाधात उत्कृष्टाऽवाधायाः संख्यातगुगत्वं न विरुध्येत । एतावत्पर्यन्तमुपयुक्ताः कालाः सर्वेऽन्तर्मुहूर्तप्रमाणाः। (१५) ततोऽनुसमयमनुभागमपवर्तयतोर्जन्तोः प्रथमसमयेऽष्टवार्षिकं सम्यक्त्वमोहनीय स्थ. तिसत्कर्म संख्यातगुणम् । पूर्वपदस्थाऽन्तमुहूर्तत्वेनाऽस्याष्टवर्षप्रमाणत्वात्संख्यातगुणत्वं न्याय्यम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001832
Book TitleKarmaprakrutigatmaupashamanakaranam
Original Sutra AuthorShivsharmsuri
AuthorGunratnasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages332
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy