________________
कतिभवेषु मोक्षगमनम् ]
क्षायिकसम्यक्त्वप्राप्तिः चोदीरणाकरणेनाऽऽगतदलिकमुदयगतदलिकस्याऽसंख्येयभागमात्रम् । यत उदये गुणश्रेण्या प्राक्प्रभूतं दलिकं रचितम् । एवं रीत्योदोरणा तावद्वक्तव्या, यावत्सम्यक्त्वमोहनीयस्य समयाऽ धिकाऽऽवलिका सत्तायामवतिष्ठते । तत उदीरणा व्यवच्छिद्यते, चरमाऽऽवलिका केवलेन शुद्धनोदयेनाऽनुभूय सम्यक्त्वमोहनीयं निःसत्ताकं करोति क्षायिकसम्यक्त्वं च लभते । उक्तं च कषायप्राभतचूर्णी-- "उदीरणा पुण संकलिहस्सदु वा विसुजादु वा तो वि असंखेज्जसमयपषद्धा असंखेजगुणाए सेटीए जाव समहिया आवलिया सेसा त्ति । उदयस्स पुण असंखेज्जदिभागो उक्कसिया वि उदीरणा ।" इति ।
ननु क्षायिकसम्यग्दृष्टिर्जन्तुः कतिषु भवेषु मोक्षमुपयातीति चेद् ? उच्यते-अबद्धायुष्कः क्षीणसप्तकस्तद्भवोपार्जिततीर्थकुनामानं वर्जयित्वा तद्भवे मोक्षमभिगच्छति इत्येको भवः । बद्धसुरायुष्को बद्धनरकायुष्को वा स्वर्ग नरकं वा गत्वा स्वर्गभवाऽन्तरितो नरकभवाऽन्तरितो वा तृतीयमवे मोक्षं याति, इति त्रयो भवाः । ननु कतितमं नरकं यावत्क्षायिकसम्यग्दृष्टिर्यातीति चेद् ? उच्यते,क्षायिकसम्यग्दृष्टिः प्रथमनरकं यावद् गच्छति । उक्तं च पश्वसङ्ग्रहमूलटीकायाम्“यतो यस्माद बद्धायुष्को वैमानिकदेवेषु रत्नप्रभानारकेषु वा क्षपितसप्तका गच्छन्ति, ते तु तदुभवानुभवनात्तृतीये भवे सेत्स्यन्ति" इति । तथैवोक्तं च जीवसमासेद्रव्यमपकृष्य निक्षेपे समयाधिकावल्युपरितननिषेकादिपकृष्टद्रव्यस्य बहुवारमसंख्यातगुणितस्य तदानीतनोदयनिषकादीनामधिकमावशङकायां परिहार उच्यते, यद्यप्यसंख्येयसमयप्रबद्धानामदोरणाचरमपर्व. पूर्वोदोरणाद्रव्यादसंख्यातगुणित द्रव्यं तथाऽपि चरमकालिकगुणश्रेण्यायामोदय निषेकद्रव्यादसंख्यातेकभ.गमात्रमेवोदीरणाद्रव्यमुदयनिषके दीयमानमपकर्षणभागहारेण खण्डितसर्वद्रव्यस्य पल्यासंख्यातमागेन भक्तस्यैकभागमात्रत्वादुदयनिषेकस्य सर्वद्रव्यस्याऽसंख्यातपल्यप्रथमवर्गमूलभक्तस्यैकमागमात्रत्वाद् । कि पुनः कृतकृत्यवेदकप्रथमादिसमयेषूदीरणाद्रव्यं तत्र तत्रोदयावलिनिषकेषु दीयमानं तत्तदुदयावलिनिषेकसत्त्वद्रव्यादसंख्यातगुणहीनमित्युच्यते । कृतकृत्यवेदककालस्य समयाऽधिकावलिमात्रेऽवशिष्टे सर्वाग्रनिषेकात्पूर्वपूर्वाऽकृष्टद्रव्यादसंख्यातगुणितद्रव्यमपकृष्य समयोनाऽऽवल्या द्वित्रिभागमपि संस्थाप्य तदधस्तने तत्रिधागे समयाऽधिक उदयसमयात्प्रभति इदानीमपकृष्टद्रव्यस्य पल्यासंख्यातभागभक्तस्यैकभागं तद्योग्याऽसंख्यातसमयपर्यन्तमसंख्यातगुणितक्रमेण दत्वाऽवशिष्टबहुभागद्रव्यं तथाऽऽवलिविभागसमयेष्वतिस्थापनाऽधस्तनसमयं मुक्त्वा सर्वत्र विशेषहीनक्रमेण निक्षेपेत् । एषवोत्कृष्टोदीरणा। एवमनुभागस्याऽनुसमयमनन्तगुणिताऽपवर्तनेन कर्मप्रदेशानां प्रतिसमयमसंख्यातगुणितोदीरणया च कृतकृत्यवेदकसम्यग्दृष्टिः सम्यक्त्वप्रकृतिस्थितिमन्तमु हुायाममुच्छिष्टावलि मुक्त्वा सर्वप्रकृतिस्थित्यनुभागप्रदेशविनाशपूर्वक मुदय मुखेन गालयित्वा तदनन्तरसमय उदीरणारहितं केवलमनुभागसमयापवतनेनैव प्राक्तनापवतन क्रमविलक्षणेनोदयसमयात्प्रभृति प्रतिसमयमनन्तगुणितक्रमेण प्रवतैमानेन प्रकृतिस्थित्यनुभागप्रवेशविनाशपूर्वक प्रतिसमयमेकैकनिषेकं गालयित्वा तदनन्तरसमये क्षायिकसम्यगदृष्टिर्जायते जीवः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org