SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ १४६ ] उपशमनाकरणम् वेमानिया य मणुया रगणाए असंखवास तिरिया य । तिविहा सम्मदिट्ठी वेद्यगउवसामगा सेसा ॥१॥ इति । ननु ग्रन्थाऽन्तरेषु कृष्णस्य तृतीय नरकगमनं श्रूयते तत्कथं संगच्छेत ? इति न वाच्यम्, उत्सवचनस्य प्रायिकत्वात् कुतश्चित्कारणान्तर द्वा । यदुक्तं जीवसमासवृत्तौ' ननु वासुदेवादीनां क्षायिकसम्यग्दृष्टीनां तृतीयनरकपृथ्वीं यावदुत्पत्तिरागमे श्रूयते तत्किमिति शर्करा प्रभावालुकाप्रभानारकाणामपि क्षायिकसम्यक्त्वं निषिध्यते ? सत्यम, किन्तु क्षायिक सम्यग्दृष्टयः प्रागो रत्नप्रभामेव यावद् गच्छन्ति परतस्तु स्वल्पा एव केचिद् गच्छन्तीति स्वल्पत्वात् इह ग्रन्थे न विवक्षिताः, अन्यतः कुतश्चित् कारणादीनि केवलिनो बहुश्रुता वा विदन्ति ।" इति । Jain Education International 3 यदि क्षायिकसम्यग्दृष्टिः पल्योपमाऽऽद्य संख्यातवर्षायुष्केषु तिर्यक्षु मनुष्येषु वा समुत्पद्यते ते चाऽसंख्येवर्षायुष्कास्तिर्यञ्चो मनुष्या वा मोक्षं नाऽधिगच्छन्ति तस्तद् भवाऽनन्तरे देवभवेऽसा उत्पद्यते, यतोऽसंख्येयवर्षायुष्कास्तिर्यञ्चो मनुष्या वा नियमतो देवेष्वेवोत्पद्यन्ते । ततो देवभवाच्च्युत्वा मनुष्यभवे समुत्पद्य मोक्षं यातीति चत्वारो भवाः । उक्तं च पञ्चसङग्रहे गाथा - ३२ तइय चउत्थे तम्मि व भवम्मि सिज्झन्ति दंसणे खीणे 1 ज देवनिरयसंखाउचरमदेहेसु ते हुति ॥ १॥ तट्टीका - " तृतीये चतुर्थे तस्मिन्वा भवे सिद्ध्यन्ति सप्तके क्षीणे जीवा गम्यते यतो यस्माद् बढायुष्का वैमानिकदेवेषु रत्नप्रभानारकेषु वा क्षपितसप्तका गच्छन्ति, ते तु तद्भवानुभवनात्तृतीयभवे सेत्स्यन्ति, असंख्येयवर्षायुस्तिर्यग्मनुष्येषु ये बडायुष्काः सप्तकं क्षपयन्ति तेऽपि द्विभवानुभवनाच्चतुर्थ भवे सेत्स्थन्ति ये वायुकाः सप्तकें क्षपयन्ति ते चरमदेहाः स्वस्मिन्नेव भवे सिद्धयन्तीति गाथार्थः । " तथैव कषायप्राभृतचूर्णिकारैर्गाथायामुक्तम् स्ववणाए पट्ठवगो जम्हि भवे णियमसा तदो अण्णे । णाविच्छुदि निष्णि भवे दंसणमोहम्मि खीणम्मि || अक्षरगमनिकास्त्वेवम्-यस्मिन्भवे दर्शनत्रिकस्य प्रस्थापको भवति, तदितरांस्त्रीन्भवान् नाऽतिक्रामति, प्रारम्भकस्य मनुष्यस्योत्कृष्टतश्चत्वारो भवा एव भवन्तीति वाच्यम् । तथैवोक्तं For Private & Personal Use Only www.jainelibrary.org
SR No.001832
Book TitleKarmaprakrutigatmaupashamanakaranam
Original Sutra AuthorShivsharmsuri
AuthorGunratnasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages332
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy