________________
प्रस्थापकः ] क्षायिकसम्यक्त्वप्राप्तिः
[ १४१ निवृत्तिकरण लक्षणं येन स इति व्युत्पत्तिः ।
जतदानीं तस्याऽनिवृत्तिकरणं समाप्तं भवति, क्षीणायुष्ककृतकरणश्चतुर्गतिवन्यतमायामुत्पद्यते कृतकरणे जाते लेश्याऽपि परावर्तते, पूर्व शुक्ललेश्याऽऽसीत्, सम्प्रत्यन्यतमा लेश्या भवति । उक्तं च कर्मप्रकृतिचूर्णी-"कयकरणो तंमि काले कालं पि करेज्जा तेण च उगति लगभति । लेस्सा परिणामं विपरिणामेज्जा पुध्वं सुक्कलेसा आसि संपयं अन्नयरीए वि होज्जा इति । क्षीणायुष्को गतिचतुष्टयेऽक्षीणायुष्को मनुष्यगतावेवाऽवशिष्टाऽन्तमुहूर्तप्रमाणसम्यक्त्वमोहनीयस्थितिसत्त्वमुदयोदीरणाभ्यामनुभवति । सम्यक्त्वमोहनीयस्याऽऽवलिकामाने शेषे स्थितिसत्त्वे उदीरणाऽपि व्यवच्छिद्यते । शेषाऽऽवलिकामात्रं स्थितिसत्त्वं केवलं शुद्धेनोदयेनाऽनुभूय निर्लेपी भवति । सम्यक्त्वमोहनीये नाशितेऽनन्तरसमये जन्तुः क्षायिकसम्यक्त्वमश्नुत इत्यर्थः ।
ननु मिथ्यात्वादिदर्शनत्रिकस्य क्षये किमसौ जन्तुरदर्शनो जायते उत नेति चेद् ? उच्यते-सम्यग्दृष्टि रेवाऽसौ । ननु सम्यन्दर्शनपरिक्षये कुतः सम्यग्दृष्टित्वम् ? उच्यते, निर्मदनीकतकोद्रवकल्पा अपनीतमिथ्यात्वभावा मिथ्यात्वपुद्गला एव सम्यग्दर्शनम्, सम्यक्त्वमोहनीयपुद्गला इत्यर्थः । तत्परिझये च तत्त्वश्रद्धानलक्षणपरिणामाप्रतिपातः, सूक्ष्माभ्रपटलापगमे चक्षुर्दनिमिव विशुद्वतरापत्तेः यदाह-भाष्यसुधाम्भोनिधिः
खीणम्मि दंसणतिए किं होह तओ तिदंसणाईओ। भन्नइ सम्मदिहि सम्मत्तखए कओ सम्म ? ॥२॥ निव्वलियमयणकुद्दवरूवं मिच्छत्तमेव सम्मत्तं । खीणं न उ जो भावो सद्दहणा लक्खणो तस्स ॥२॥ सो तस्स विसुद्धयरो जायइ सम्मत्तपुग्गलक्खयओ। दिहिव्व सण्हसुलभपडल विगमे मणसस्स ॥३॥ यदि वा
जह सुद्ध जलाणुगयं, दुद्धं सुद्धं जलक्खए सुतरं । सम्मत्तसुद्धपुग्गलपरिक्खए दसणं एवं ॥
(विशेषा० भा० गा० १३१८.२१).
जटिप्पणि० उक्तं च जयधवलायां स्थिति विभक्त्यधिकारे-"तदो तेसु गदेसु सम्मत्तचरिमफालिमागाएंतो कदकरणिज्जकालमत्तानो द्विदीयो मोत्तूण आगाएदि । पुणो तं घेत्तूण गुणसे ढिणिक्खेवेण णिक्खिते प्रणियट्टिकरणं समप्पदि।"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org