________________
स्थितिधातः] अनिवृत्तिकरणाधिकारः
[ १३१ दलिके प्रक्षिप्ने प्रत्येकस्मिन्निषेके दीयमानदलं पुरातनसत्तागतदलतोऽसंख्येयगुणं भवति । उपयुक्तो दलिकनिक्षेपक्रमः सम्यक्त्वमोहनीयस्यैव ज्ञातव्यः, कुत इति चेद् ? उच्यते-मिश्रमोहनीयस्य चरमपन्योपमाऽसंख्येयभागमात्रे खण्डे घातित आवलिकामात्रस्थितिरवशिष्यते, पन्योपमाऽसंख्येयभागप्रमाण चरमस्थितिघाताद्धायाश्चरमसमय आवलिकामात्रस्थितिवर्जसर्वमिश्रमोहनीयम्य सम्यक्त्वमोहनीयरूपेण परिणमनात्,सम्यक्त्वमोहनीयस्य तु पल्योपमाऽसंख्येयभागमात्रे चरमस्थितिखण्डे घातितेऽष्टवर्षप्रमाणस्थितिरवशिष्यत इतिकृत्वा पल्योपमाऽसंख्येयमागप्रमाणचरमस्थितिघाताद्धायाश्चरमसमये घातितस्थितेर्दलिकान्यष्टवर्षप्रमाणस्थिता उपयुक्तक्रमेण निक्षिप्यन्ते । वर्षाऽष्टकस्थितिसत्कर्मणि जाते स्थितिखण्डान्यन्तमुहूर्त प्रमाणानि भवन्ति । उक्तं च कर्मप्रकृतिचूर्णी "अपत्तापाओ सम्मत्तस्स अंतोमुहुत्तियं हितिखंडगं करोति इति ।" एवं कषायप्राभूतचूण वपि ।
दृश्यमानं दलमुदयसमयादरभ्य गुणश्रेणिशीष यावद्दलिकमसंख्येयगुणक्रमेण वक्तव्यम्, गुणश्रेणि चरमनिपेकतोऽनन्तरोपरितननिषेकश्च गुणश्रेणिशीर्षम् तस्योपरि विशेषहीनक्रमेण वक्त
व्यम्।
पल्योपमाऽसंख्येय भागप्रमाणचरमखण्डस्योत्कीर्णाद्धायाश्चरमसमय उत्कीर्णदलिकतस्तस्परेषामन्तमु हतप्रमाणानां स्थितिखण्डानां प्रत्येकस्थितिखण्डोत्कीर्णाद्धायाः प्रथमसमयात्प्रभूतिद्विचरमसमयपर्यन्तदलिकमसंख्येयगुणहीनमुत्कीर्यते, चरमसमये तु संख्येयगुणहीनमुत्कीयते । कथमेतदवसीयत इति चेद् ? उच्यते-पल्योपमाऽसंख्येयभागलक्षणचरमखण्डोत्कीर्णाद्धायाश्चरमसमये पल्योपमाऽसंख्येयभागलक्षणचरमस्थितिगतानि शेषाणि सर्वाणि दलिकान्युत्कीर्याऽधस्तनऽष्टवर्षप्रमाणस्थितौ प्रक्षिपति । अथाऽष्टवर्षप्रमाणस्थितेरन्तमुहूर्तप्रमाणानि संख्यातानि खण्डानि क्रियन्ते, अतः पन्योपमाऽसंख्येययभागप्रमाणचरमखण्डोत्कीर्णाद्धायाश्चरमसमये पल्योपमाऽसंख्येयभागप्रमाण चरमखण्डगतशेषदलिकस्य संख्येयतमभागः प्रत्येकखण्डे प्राप्तः, पन्योपमाऽसंख्येयभागचरमस्थितिखण्डगतावशेषदलिकस्यासंख्येयखण्डेषु विभजनात् । अन्तमुहूर्तप्रमाणखण्डस्य च प्रतिसमयमसंख्येयगुणकारेण तदुत्कीर्णाद्धाचरमसमयपर्यन्तमुत्किरति, अतस्तत्खण्डगतदलिकस्याऽसंख्येयतमभागस्तत्स्थितिघाताद्धाया द्विचरमसमयपर्यन्तमुत्कीर्यते, शेषानसंख्ययभागांश्च चरमसमय उत्किरति । एतेनाऽन्त मुहूर्तप्रमाणखण्डे यावन्ति दलिकानि सन्ति, तेषामसंख्येयतमभागं मुक्त्वा शेषाऽसंख्येयबहुभागमानं दलिकं तत्खण्डसत्कस्थितिघाताद्धायाश्चरमसमय उत्किरति । एवं स्थितिघाताद्धाया द्विचरमसमयपर्यन्तं केवलमेकाऽसंख्येयभागमात्रं दलिकमुत्कीयते । सत्तागतदलिकतो यद्वा पल्योपमाऽसंख्येयभागप्रमाणचरमखण्डस्योत्कीर्णाद्धायाश्चरमस
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org