SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ १३०] उपशमनाकरणम् [ गाथा-३२ सत्तागतसर्वदलिक तथा सम्यक्त्वमोहनीयस्याऽष्टवर्षमात्रस्थितिवर्जसर्वसत्तागतदलिकं पल्यो. पमाऽसंख्येयभागप्रमाणचरमखण्डस्योत्कीर्णाद्धाश्चरमसमय उत्कीयते, अतश्चरमस्थितिघाताद्धायाश्चरमसमये मिश्रसम्यक्त्वयोः पन्योपमाऽसंख्येयभागमात्रचरमस्थितिखण्डे दलिकं किश्चिन्यूनसार्धगुणहानिगुणितसमयप्रबद्धप्रमाणं भवति । तद्दलिकं पल्योपमाऽसंख्येयतममागलक्षणभागहारेण भक्त्वा तदेकमसंख्येयतमभागमुदयसमयादारभ्य प्रागारब्धगलितावशेषगुणश्रेणिशीर्षपर्यन्तं पूर्वपूर्वत उत्तरोत्तरसमयेऽसंख्येयगुणकारेण विरच्य शेषान् बहुभागान् गुणश्रेणिनिक्षेपन्यूनाष्टवर्षप्रमाणस्थितौ प्रक्षिपति, एवं गुणश्रेणौ निक्षिप्तदलिकतोऽसंख्येयगुणं दलिकं गुणश्रेण्यायामतः संख्येयगुणायामे गुणश्रेण्यायामन्यून वर्षाष्टकलक्षणे प्रक्षेपणीयम् । अतो गुणश्रेणिचरमनिषेके प्रक्षिप्तदलिकतस्तदुपरितनाऽनन्तरनिषेकेऽसंख्येयगुणे दलिके प्रक्षिप्त एवाऽसंख्येयबहुभागमात्रं दलं गुणश्रेणितः संख्यातगुण आयामे विशेषहीनक्रमेण विभक्तं स्यात् , असंख्येयगुणहीने प्रक्षिप्ते त्वसंख्येयवहुभागदलस्य निक्षेवो न स्यात्, तेन गुणश्रेणिचरमनिषेकतस्तदुपरितननिषेकेऽसंख्येयगुणं दलिकं प्रक्षिपति । तत उपरि विशेषहीनक्रमेण तावत्प्रक्षिपति यावदष्टवर्षप्रमाणस्थितेश्वरमनिषेकः, अनेन क्रमेण दलिके प्रक्षिप्ते गुणश्रेणेरुपरितनप्रथमनिषेकात्प्रभत्यष्टवपंप्रमाणस्थितेश्वरमनिषेकं यावत्प्रत्येकस्मिन् निषेके प्रक्षिप्तं दलिक गुणश्रेणिचरमनिषेके निक्षिप्त. दलिकतोऽसंख्येयगुणं भवति । इत्थमसंख्येयबहुभागमात्रं दलं गुणश्रेणेरुपरितननिपेकेषु प्रक्षिप्त भवति, तेनाऽसंख्येयबहुभागमात्रदलस्य निक्षेपः सूपपद्यते, अयं तु गुणश्रेणेः शिर इत्युच्यते, गुणस्य-असंख्येयगुणकारेण श्रेणिस्तस्य शिरः अवसानमिति व्युत्पत्तेः । अग्रे दृश्यमानप्ररूपणायां गुणश्रेणिशिरम्पदेनाऽयमेव निषेको बोध्यः । अतः परं गुणश्रेणिरुदयाद्यवस्थिता भवति, सा च प्राग्व्याख्याता । तत उपरि विशेषहीनक्रमेण प्रक्षिपति, यावदतीत्थापनाऽप्राप्ता भवति । एवं क्रमेण के टिप्पणी-उक्त च जयधवलायाम-एत्थ ताव सम्मामिच्छत्तस्स चरिमफालीए सह सम्मत्तस्स अपच्छिमं पलिदो असंखे० भागिगं टिदिखंडयमोवट्टियूण प्रटुवस्समेत्त सम्मत्तस्स टिविसंतकम्म टुवेमाणस्स गुणगारपरावत्ति वत्तइस्सामो तं जहा....तक्कालभाविसगचारिमफालिदव्वेण सह सम्मामिच्छत्तार. मफालि घेत्तण अहवस्समेतदिदिसंतकम्मस्सुवरि णिसिंचमाणो उदए थोवं प्रदेसग्गं देदि । से काले प्रस. खेज्जगण देदि एवं जाव गुणसेडिसोसयं पुस्विल्लं ताव असंखे० गुणं देदि। तदो उपरिमाणतराए द्विदीए असंखे० गुणं चेव देदि । किं कारणं ? सम्मामिच्छत्तचरिमफालिवावं किचूणदिवडगुणहाणिगुणिदसमयप. बद्धमेत्तमोकणभागहारादो प्रसंखेज्जगुणेण पलिदो० असंखे. भागेण खडेयूण तत्थेयखडमेत्तमेव दव्वं गुणसेढोए णिक्खविय पुणो सेसबहुभायदवमंतोमुहूत्तण?वस्सेहि खंडिदेयखंडस्स णिरुद्धगोवुच्छायारेण णिक्खेव दसणादो । तम्हा एत्तोप्पहुडि सम्मत्तस्स उदयानि प्रवटिदिगुणसेढीणिक्खेवो होइ त्ति घेत्तध्वो। एवं गुणसेढीसीसयादो अणंतरोवरिमाए वि एकिस्से द्विवीए प्रसखेज्जगुणं पदेसग्गं णिक्विवियूण तदो उवरि सम्पत्य प्रणंतरोवणिधाए विसेसहोणं चेव देदि जाव प्रवासाण चरिमणिसेम्रो त्ति।" Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001832
Book TitleKarmaprakrutigatmaupashamanakaranam
Original Sutra AuthorShivsharmsuri
AuthorGunratnasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages332
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy