________________
蠱
दलनिक्षेप: ]
अनिवृत्तिकरणाधिकारः
[ १२६
कश्चिद्दोषः । अतो गुणश्रेण्या एकैकनिषेके दीयमानदलिकतो दृश्यमानदलिकं विशेषाऽधिकं भवति विशेषाधिक्यं च पुरातन सत्तागतदलेन बोध्यम् । गुण रोरुपरितने एकैकनिषेके पुरातनसत्तागतदलस्याऽसंख्येयभागमात्रं दलं प्रक्षिप्यते तेन तत्र पुरातनसत्तागतदलिकतो दृश्यमानं दलं विशेषाऽधिकं भवति, विशेषाधिक्यं च दीयमानदलेनाऽवगन्तव्यम् । तथा गुणश्रेणिप्रथम निषेकाच्चर मनिदेकं यावद् दृश्य मानदलमसंख्येयगुणं भवति, गुणश्रेणिचरमनिषेकादनन्तरोपरितन निषेकेऽसंख्येयगुणहीनं भवति, तत ऊर्ध्वं विशेषहीनम् ।
अथोत्कीर्यमाणपल्योपमाऽसंख्येय भागरूपचरम स्थि तिखण्डाद्धायाश्वरमसमये दलनिक्षेपक्रम उच्यते - पल्योपमाऽसंख्येय भागरूप चरम स्थितिखण्डगतान्य संख्येय बहुभागप्रमाणदलिकानि तत्रिथतिघाताद्धायाश्चरमसमय उत्किरति, उत्कीर्यचोदय समयादारभ्य गुणश्रेणिशिरः पर्यन्तमसंख्येयगुणकारेण विरचयति । अयं गुणश्रेणिनिक्षेपोऽवस्थितो भणितव्यः, वेदनतः समये क्षीण उपयु परिवर्धत इत्यर्थः । ततो गुणश्र णिशिरस उपरितनैकस्थितिस्थानके गुणश्रेणिचरम स्थानकतोऽसंख्येयगुणं विरचयति । अतः प्रभृति वेदनत उदयसमयेषु श्रीयामणेषु वेदितसमयप्रमाणनिक्षेपः पूर्वपूर्वनिक्षेपतः प्रतिसमयं न्यूनो न्यूनतरो न भवति, किन्तु गुणश्रेणिनिक्षेप उपर्युपरि वर्धते, पूर्व स्वनुभवतः क्षीणेषु समयेषु शेषशेषसमयप्रमाणनिक्षेप आसीत्, न च गुणश्रेणिनिक्षेप उपर्युपरि वर्धते स्मेत्यर्थः । गुणश्रेणिशिरस उपरितने प्रत्येक स्थितिस्थानके विशेषहीनक्रमेण गुणश्रेणिनिक्षेपन्नाऽष्टवर्षप्रमाणस्थितौ निचिपति ।
★ उक्तं च कषायप्राभृतचूर्णी - "ताघे पाए ओवटिजमाणासु द्विदिसु उदये थोवं पदेसग्गं दिज्जदे । से काले असंखेज्ञगुणं जाव गुणसेढीसीसयं ताव असंखेज्जगुणं तदो उवरिमाणंतरडिदिए वि असंखेजगुणं देदि । तदो विसेस होणं । एवं जाव दुचरिमडिदिखंड यं ति "इति । भावार्थः पुनरयम्सम्यक्त्वमोहनीय मिश्र मोहनीययोः पल्योपमाऽसंख्येयभागमात्र चरम स्थितिखण्डस्य दलिकं किश्चिन्यून सार्धगुणहानिगुणितसमयबद्धप्रमाणं भवति यतः सत्तागतसर्वदलिकमपि किश्चिन्न्यूनसार्धगुणहानिगुणितसमयबद्धप्रमाणं भवति, अत्र च मिश्रमोहनीयस्योदयावलिकामात्रवर्ज -
★ उक्तं च धवलाटीकायामपि "पलिदोवमस्त प्रसंखेज्जादिभगियं चरमट्ठिविखंडयं चरिमफालिपदेसग्गमट्ठवरसम्म निक्खियमाणो उदयादिगवद्विदगुणसेढी करेहि । तं जहा - उबए थोवं पवेसग्गं दे दि से काले प्रसंखेज्जगुणं देदि । एवं जाव गुणसेढीसीसयं ताव श्रसंखेज्जगुणं तदो उवरिमणतरष्ट्ठिदिए वि असंखेज्जगुणं देवि । तदो विसेसहीणं बेदि । पुणो प्रणेण विधिणा सेसप्रमसमेत्तट्ठिदिसंत कम्मम्मि विसेसहोण चेव देदि त्ति ।"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org