SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ १२८ ] [ गाथा - ३२ निक्षेप उदयावलिकायां विशेषहीनक्रमेण भवति, अनुदयवतीनां तूदयवलिकाय दलिकं न निक्षिपति । उपशमनाकरणम् उपर्युक्त निक्षेपक्रमो यद्यपि चूर्णिसूत्र ऽपूर्वकरणस्य प्रथमसमयादारभ्य पल्योपमा - संख्येयभागप्रमाणं चरम स्थितिखण्डं यावत्खण्डयति, तावदुक्तस्तथाऽप्युत्कीर्यमाणपल्योपमाऽसंख्येय मागरूप चरमस्थितिखण्डाद्धाया द्विचरमसमयपर्यन्तमेव क्रमो वाच्यः, यत उत्कीर्य - माणपन्योपमाऽसंख्येय मागरूपच रमस्थितिखण्डाद्धायाश्वरमसमय एव दलिकमष्टवर्षप्रमाणस्थितौ प्रक्षिपतोर्जन्तोर्भिन्नक्रमश्च चूर्णौ दर्शितः तथा चाऽत्र कषायप्राभृतचूर्णि - पलिदोवमस्स असंखेज भागिय मपच्छिमं हिदिखंडयं तस्स डिदिखंडयस्स चरिमसमये गुणगारपरावत्ती "इति । उपर्युक्तानामक्षराणामयं भावः सम्यक्त्वमोहनीयस्य मिश्रमोहनीयस्य चोत्कीर्यमाणपल्योपमाऽसंख्येय भागप्रमाण चरम स्थितिखण्डाद्धायाश्चरमसमये तत्खण्ड गतं सर्वदलिकमुत्कीर्याऽधः प्रक्षिपति, तत्प्रक्षेपक्रमो न पूर्ववत्, किन्तु परावर्तते, तत्प्रक्षेपोऽन्यक्रमेण भवतीत्यर्थः । गुणकारपरावृत्तिर्नाम क्रियाभेदः, स तु पल्योपमाऽसंख्येय भागप्रमाण चरम स्थितिघाताद्धाचरमसमये भवति, नाग् । तेनेदं ज्ञापितं भवति - यत्पल्योपमाऽसंख्येय भागप्रमाण चरम स्थितिघाताद्वाया द्विचरमसमयं यावत्प्रागुक्तक्रमेण दलिकनिक्षेपो भवति । अथाऽपूर्वकरणप्रथमसमयात्प्रभृति मिश्रमोहनीयस्य द्विचरम स्थितिखण्डं यावद् दृश्यमानदलस्य दीयमानदलस्य च प्ररूपणा क्रियते यद्दलं निक्षिप्यते तद्दीयमानं दलमुच्यते, तेन सहितं पुरातनसत्तागतदलं दृश्यमानदलत्वेन व्यवह्रियते । तत्रादावेकैकनिषेकमाश्रित्य दृश्यमानदलस्य दीयमानदलस्य चाऽल्पबहुत्वमभिधीयते ' उदयावलिकायाः प्रत्येकस्मिन्निषेके पुरातन सत्तागतदलस्याऽसंख्येयभागमात्रमेव दीयते, तेनोदयावलिकाया एकैकस्मिन्निषेके पुरातन सत्तागतदलिकतो दृश्यमानदलिकं विशेषाऽधिकं भवति । विशेषाधिक्यं च दीयमानदलेन ज्ञातव्यम् । गुणण्या एकैकस्मिन्निषेके पुरातनसत्तागतदलिकतो दीयमानं दलिकम संख्येयगुणं भवति । न च गुणश्रेण्यां दीयमानं दलिकं सर्वसत्कर्मद लिकस्याऽसंख्यात भागमात्रं भवति, यतः सर्वसत्वदलिकमप्रकृष्टभागहारेण भक्त्वा तदेकभागं पुनः पल्योपमाऽसंख्यात भागेन विभज्यैकभागगतदलं गुणश्रेण्या दीयते, तर्हि गुणश्रेणि सत्कनिषेकगत पूर्वसत्वदलिकतो दीयमानदलिकम संख्येयगुणं कथं भवतीति वाच्यम्, यतो गुणण्यां निक्षिप्यमाणदलिकस्य सर्वसत्वदलिकसत्काऽसंख्यात भागमात्रत्वेऽपि गुणश्रेण्यां निषेकाणामल्पत्वेन प्रतिनिषेकण प्राप्यमाणदलिकस्य तत्र पूर्वसच्चदलिकतोऽसंख्यातगुणत्वेन फ टीप्पणी- उदयावल्यां दत्तद्रव्यं प्राक्तन सत्त्वद्रव्यस्याऽसंख्यातैकभागमात्रमिति तेन सत्त्वद्रव्यं साधिकं भवति । । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001832
Book TitleKarmaprakrutigatmaupashamanakaranam
Original Sutra AuthorShivsharmsuri
AuthorGunratnasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages332
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy