SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ ज. स्थितिसंक्रमः ] अनिवृत्तिकरणाऽधिकारः [ १२५ मिथ्यात्वस्य चरमस्थितिखण्डे घात्य माने घातिते मिथ्यात्वस्य जघन्यस्थितिसङ्क्रमो भवति, गुणितकर्माशम्य जीवस्य चोत्कृष्ट प्रदेशसक्रमो भवति, यो जीवो मिथ्यात्वस्योत्कृष्टप्रदेशाग्रं सङ्क्रमयति तस्य जीवस्य मिश्रस्योत्कृष्टप्रदेशसत्कर्म भवति । उक्तं च कषायप्राभतचूर्णी "तदो हिदिवंडये णिहायमाणे णिट्ठिदे मिच्छत्तस्स जहण्णओ हिदिसंकमो उकोसओ पदेससंकमो ताधे सम्मामिच्छत्तस्स उकस्सगं पदेससंतकम्म"। इति । एवं. कमप्रकृतिचूर्णावपि "मिच्छत्तसम्मामिच्छत्ताणं अप्पप्पणो खवणचरिमखंडगेवटमाणो मणुत्तो अविरतसम्मदिट्ठी देसविरतो वा विरतो वा जहण्णठितिसंकामगो लब्भति... स्थितिसंक्रमे) अप्पप्पणो खवगस्स चरिमसंछोभणातो-दोण्हं मोहाणं ति मिच्छत्तसम्मामिच्छत्ताणं उकोसपदेससंकमो सव्वसंकमेण लब्भति...(संक्रम करणे प्रदेशसंक्रमे) । ततो लहुमेव खवणोए अन्भुडिओ जंमि समते मिच्छत्तं सम्मामिच्छत्ते सव्वसंकमेण संकंतं भवति तंमि समते सम्मामिच्छत्तस्स सकोसपदेससंतं भवति (उत्कृष्टप्रदेशसत्तास्वामित्वे) इति"। ननु मिथ्यात्वस्य पल्योपमाऽसंख्येय भागमात्रं चरमस्थितिखण्डं स्थितिघाताद्धायाः प्रथमसमयादारभ्याऽन्तम हृतं यावद् घात्यते, तर्हि मिथ्यात्वस्य जघन्यस्थितिसङ्क्रमोऽन्तमुहूर्त यावत्कृतो नोच्यते, स्थितिघाताद्धायाश्चरमसमय एव कथमिति चेद् । उच्यते चरमस्थितिखण्डं घातयन् स्थितिघाताद्धायाः प्रथमसमयादारभ्य प्रतिसमयमुदयावलिकाया उपरितनीः सर्वस्थितीघोतयति । तथा वेदनत उदयसमयेषु क्षीणेषु सत्सु स्थितिखण्डस्याऽधस्तनसमयाः क्रमश उदयावलिकायां प्रविशन्ति । उदयावलिकागतं सकलकरणाऽयोग्यमितिकृत्वा स्थितिघाताद्धायाः प्रथमसमयत उत्तरोत्तरसमये वेदिते स्थितिसत्त्वे स्थितिखण्डस्य न्यूनत्वं भवति । अतः स्थितिघाताद्धाया। प्रथमममये यस्थितिखण्डमासीत् , तत्स्थितिघाताद्धायाश्चरमसमये समयोस्थितिघाताद्धाप्रमाणाऽन्तमुहर्तकालेन न्यूनं भवति । अतो जघन्यस्थितिसङ्क्रमः स्थितिघाताद्धायाश्चरमसमय एव प्राप्यते, इयांस्त्वत्र विशेष:-इतरस्थितिखण्डानामेताहशक्रमेण न्यूनत्वं न भवति, यतस्तत्रोदयावलिकाया अनन्तरस्थितिस्थानास्थितिघातो नाऽऽरभ्यते, अपि तु स्थितेरग्रिमभागतः स्थितिखण्डं घान्यते. अतो वेदनत उदयसमयेषु क्षीणेषु यद्यप्युदयावलिकोपर्युपरि वर्धते, तथाऽपि ये समया उदयावलिकायां प्रविशन्ति, ते स्थितिखण्डतो न्यूना न भवन्ति । मिथ्यात्वस्य चरमस्थितिखण्डे घातिते मिथ्यात्वस्याऽऽवलिकामात्र स्थितिसत्कर्माऽवतिष्ठते । ततो मिथ्यात्वस्याऽऽवलिकामात्रां स्थिति प्रतिसमयं सम्यक्त्वे स्तिबुकसङ्क्रमेण संक्रमयन् द्विसमयोनावलिकायां गतायां मिथ्यात्वस्य जघन्यस्थितिसत्कर्म प्राप्यते, मिथ्यात्वस्याऽ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001832
Book TitleKarmaprakrutigatmaupashamanakaranam
Original Sutra AuthorShivsharmsuri
AuthorGunratnasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages332
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy