________________
उपशमनाकरणम्
१२६ ]
[ गाथा-३२ नदयवत्वादनन्तरसम ये स्तिबुकसक्रमेणोदयवतीषु प्रकृतिषु मध्ये प्रक्षिपति तत्स्वरूपेण चाऽनुभवति तेन तदानीं तस्य दलिक स्वरूपेण न प्राप्यते, किन्तु पररूपेण । उक्तं च कषायमाभत. चौँ "तदोआवलियाए दुसमयू गाए गदाऐ मिच्छत्तस्स जहण्णहिदिसंतकम्म" इति। मिथ्यात्वस्य चरमस्थि तेघाततः पामुभयेषां कषाप्रप्राभूतचूर्णिकाराणां कर्मप्रकृतिचूर्णिकाराणां च मतेन सम्यक्त्वमिश्रयोः स्थितेग्संख्येयभागाः प्रतिस्थिनिखण्डेन घात्यन्ते, एकभागश्च सत्कर्मणि मुच्यते ।
इदमुक्तं भवति-सम्यक्त्वमिश्रयोः स्थितेरसंख्येयबहु भागान् घातयति. एकासंख्येयभागं च मश्चति, स्थितिघाताद्धाप्रमाणेन्तमुहूर्ते गने प्राग मुक्तम्याऽसंख्येयभागान् खण्डयति, एकमसंख्येय भागं च सत्कर्मणि परित्यजति, एवं क्रमेण तावद्वक्तव्यं यावदनेकसहस्राणि स्थितिघाता व्रजन्ति, ततो मिश्रस्याऽऽवलिकामात्रां स्थिति भुक्त्वा शेषां सर्वां स्थिति घातयति, सम्यक्त्वम्य त्वष्टवर्षमात्रां स्थिति मुक्त्वा शेषां सर्वा घातयति उक्तं च कर्मप्रकृतिचूर्णी-"एवं संखेज्जेहिं सम्मामिच्छत्तठिनिखंडगेहिं गऐहिं सम्मामिच्छत्त आवलियाघाहिरं सव्व आघातियं भवति । ताहे चेव समत्तसंतकम्म अहवासठियं होति" इति । एव कषायप्राभूतचूर्णावपि
"सम्मामिच्छत्तं पि खवेंतस्स सेसस्स असंवेज्जा भागा जाव ।
सम्मामिच्छत्तं पि ग्वविज्जमाणं खविदं, संछुन्भमाणं संळुह" इति । मिश्रमोद्वनीयस्य चरमस्थितिघाताद्धायाश्चरमसमये मिश्रस्य जघन्य स्थितिसक्रमस्तदानीमेव च गुणितकर्माशजन्तोरुस्कृष्टप्रदेशसक्रमो भवति । तथा तम्यैव गुणतकर्माशजन्तोः सम्यक्त्वमोहनीयस्योत्कृष्ट प्रदेशसत्वमपि भवति ।"तथा चोक्तं कषायप्राभूतचूर्णी-"एदम्मि हिदिखंडए निदिदे ताधे जहण्णगो सम्मामिच्छत्तस्स हिदिसंकमो, उक्कसओ पदेससंकमो, सम्नतस्स उकस्सपदेससंतकम्मं ।" इति ।
___ अष्टवार्षिकसम्यक्त्वसत्कर्मा च निश्चयनयमतेन सम्यग्दर्शनं प्रति मिथ्यात्वमिश्रमोहनीययोः सत्त्वस्यापि प्रत्यूहरूपत्वेन क्षयात् सकलप्रत्यूहापगमाद्दर्शनमोहनीयक्षपक उच्यते, उक्तं च कर्मप्रकतिचूर्णौ " ताहे चेव सम्मत्तसंतकम्मं अट्ठवासट्ठीइयं होति । ताहे दंसणमोहणिजस्स खवगो त्ति भन्नति"। इति । एवं कषायप्राभूतचूर्णावपि-"ताधे चेव सम्मत्तस्स संतकम्ममहवस्सहिदिगं जादं । ताधे चेव दंसणमोहणीयक्खवगो त्ति भण्णा । इति । केचिद् भणन्ति-मिश्रम्य प्रक्षेपे सम्यक्त्वस्य स्थितिसत्त्वं संख्येयसहस्रवर्षप्रमाणं भवतीति । उक्तं च कषायप्राभतचूर्णी-"ताधे सम्मत्तस्स दोष्णि उवदेसा । केवि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org