________________
१२४ ] उपशमनाकरणम्
[ गाथा ३२ स्थितिघातैर्यतः, तत् स्थानं दूरापकृष्टिरिति व्यवहीयते ।
इतः प्राकसत्तास्थितेः संख्येयभागान् घातयति स्म, अतः प्रभृति सत्तास्थितेरसंख्येयान् भागान् घातयतीतिकृत्वा स्थितिघातेन सत्तागतस्थितिरतिद्रमपनीयते । ततः परं दर्शनत्रिकस्य स्थितेरसंख्येयवहभागा घान्यन्त एकश्व सत्कर्मण्यवशिष्यते। संख्ये येषुस्थितिखण्ड सहस्रषु गतेषु. सम्यक्त्वस्याऽसंख्येयसमयप्रबद्धोदीरणा जायते । इदमुवतं भवति-कषायप्राभतर्णिकारमतेन गुणश्रेणिरुदयावलिकाया उपरितननिषेकात्प्रभृति भवति, अतः प्राग्गुणश्रेण्यर्थ गृहीतदलिकमसंख्येयलोकभागहारेण भक्त्वैकभागमुदयावलिकायां विशेषहीनक्रमेण ददाति स्स, बहुभागांस्तूदयावलि. काया उपरितनेषु निषेकेषु गुणश्रेणिशिरःपर्यन्तमसंख्येयगुण क्रमेण ददाति स्म, तेनोदयावलि. कायामेकसमयप्रबद्धस्याऽसंख्येयभागमात्रमागच्छति स्म । इदानीं तु गुणश्रेण्यथं गृहीतदलं पल्योपमाऽसंख्येयभागेन विभज्य कभागप्रमाणं दलमुदयावलिकायां कषायप्राभतमतेन विशेषहीनक्रमेण कर्मप्रतिमतेन त्वसंख्येयगुणक्रमेण प्रक्षिपति, तेनोदयावलिकायां दलिक पूर्वतोऽसंख्येयगुणं भवदसंख्ये यसमय विद्दल बध्यते तावद्भवति । अतः प्रभृति सर्वत्र सम्यक्त्वस्याऽसंख्येयसमयप्रबद्धोदीरणा वक्तव्या। असंख्येयसमयप्रबद्धोदीरणातः संख्येयेषु स्थितिखण्ड सहस्रषु गतेषु मिथ्यात्वस्योदयावलिकां वर्जयित्वा सर्वमिथ्यात्वस्थितिसत्कर्म घातयति तदानीं च सम्यक्त्वसम्पग्मिथ्यात्वयोः स्थितिसत्कर्म पल्योपमाऽसंख्येयभागमात्रमवशिष्यते न ततो हीनम् , उक्तं च कषायप्राभतचूर्णी -"तदो सेसस्स संखेजाभागा आगाइदा । एवं ठिदिखंडयसहस्सेसु गदेसुदूरावकिट्टी पलिदोवमस्स संखेज्जे भागे द्विदिसंतकम्मे सेसे तदो सेसस्स असंखेजा भागा आगाहदा। एवं पलिदोवमस्स असंखेन्जादिभागिगेसु बहुए सु हिदिखंडयसहस्सेसु गदेसु तदो सम्मत्तस्स असंखेज्जाणं समयपबडाणमुदीरणा । तदो बहुसु हिदिखंडएसु गदेसु मिच्छत्तस्स आवलिय बाहिरं सव्वमागाइद, सम्मत्तसम्ममिच्छताणं पलिदोवमस्स असंखेज्जदिभागो सेसो" इति ।
टिप्पणी उक्तं च जयधवलायामपि दुरावकिट्टोदो हेटा संखेज्जसहस्समेत्ताणि असंखेज्जगुणहाणिट्रिदिखंडयाणि प्रोसरियूण मिच्छत्तचरिमट्ठिदिखंडयं च संखेज्जसहस्सटिदिखंडएहि (एण्हि)ण पावदित्ति
एदम्मि अतराले सम्मत्तस्स पसंखेज्जाण समयपबद्धाणमुदीरणा पारद्धा त्ति सुत्तत्थणिच्छयो । एत्तो पव्वं च सम्वत्थेव असंखेज्जलोगपडिभागेण सव्वकम्माणमुदीरणा एण्हि पुण सम्मत्तस्स पलिदोवमस्सासंखेज्जदिभागपडिभागेगुदीररणा पयट्टात्ति ज वुत्तं होइ -प्रोकट्टिदिसयलदव्वस्स पलिदोवमस्स असंखेज्जदिभागेपडिभागियं दव्वमुदयबलियबाहिरे गुणसेढीए णिविखवदि । गुणसे ढिदव्वस्स वि असंखेज्जभा. गमेत्तं दव्वमसंखेज्जसमयपबद्धपमाणपडिबद्धमेण्हिमुदोरेदि त्ति एदेण सुत्तेण जाणाविदं । एतोप्पटुडि सम्वत्थेव उदीरणा कमो एसो चेव सम्मत्तरस दट्रव्यो।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org